Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 847
________________ Saaaaane कल्पनारचितं भेदमाश्रित्योपपत्तेः । 'व्यक्तीनामवाच्यत्वेनानपोहता' इत्यत्र च हेतुरेवासिद्धा, सांवृतस्य वाच्यत्वस्य तत्र प्रसिद्धः, तात्विकं तु वाच्यत्ववदपोह्यत्वमपि न तत्रेति सिद्धसाध्यता । इत्थं च 'सामान्यस्यापोह्यत्वेन वस्तुना' इत्यत्र 0 हेतोरसिद्धत्वम्, अनैकान्तिकत्वं च । न चापोहेऽपि वस्तुता, साध्यविपर्ययहेतोर्बाधकप्रमाणाभावात् , भावे विधिरूपतया ऽपोह्यत्वेऽप्यभावत्वेनानपोह्यत्वात् , भवतामपि प्रकृती-श्वरादिजन्यत्वस्य निषेधेऽपि तस्य वस्तुत्वानापत्तिवदस्माकमपोह्यत्वेऽप्यभावस्य वस्तुत्वानापत्तेः, प्रतियोगित्वस्य वस्तुत्वानियतत्वात् , तदभावाभावत्वादिरूपत्वे तस्य षष्ठयर्थाद्यनिरुक्तेः, विशेषणत्वादिवत् कल्पनामात्रनिर्मितत्वात् , आभाससिद्धस्यापि विधि-निषेधोपपत्तेः; अभावग्रहे प्रतियोगिग्रहस्य हेतुत्वेऽपि तत्रानाभासिकत्वस्य गौरवेणाप्रवेशात् । तदिदमुक्तम् "नाभावोऽपोछते ह्येवं नाभावो भाव इत्ययम् । भावस्तु न तदात्मेति तस्यैष्टैवमपोह्यता ॥१॥ यो नाम न यदात्मा हि स तस्यापोह्य उच्यते । न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥२॥ प्रकृती शादिजन्यत्वं न हि वस्तु प्रसिध्यति । नातोऽसतोऽपि भावत्वमिति क्लेशो न कश्चन ॥३॥" अपोहावलक्षण्ये गोरगीत्वप्रसङ्गोऽपि वृथा, अश्वादिरूपादगोवस्तुनो गोवस्तुनः स्वरूपतो बैलक्षण्यात , अपोहभेद-सत्तयोश्च तथाविधवासनामूलविकल्पविषयत्वात् , कल्पितवृत्तान्तार्थाद्युपस्थित्यनुरोधेनावस्तुन्यपि वासनोपगमात् । तदुक्तम् "अगोतो विनिवृत्तेश्च गौर्विलक्षण इष्यते । भाव एव ततो नायं गौरगौमें प्रसज्यते ॥ १॥ अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता । विचित्रकल्पनाभेदरचितेष्विव वासना ॥२॥ Jan Education to For Private Personel Use Only 2 www.jainelibrary.org

Loading...

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902