Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 846
________________ शाख़वातोसमुच्चयः । 1180811 Jain Education In त्वाद् भावस्य । अवैलक्षण्ये च गौरध्यगौः प्रसज्येत तदवैलक्षण्येन तादात्म्यसिद्धेः । न चानादिकालमवृत्तविचित्रतथार्थविक ल्पवासनाभेदाद् भिन्ना इवार्थात्मान इवास्य भावा अरोहाः समारोप्यन्त इति युक्तम्, अवस्तुनि वासनासंभवात्, वासनाहेतोनिर्विषयप्रत्ययस्यायोगात्' इति । तदपि न, अन्यग्रहणमन्तरेणैव प्रतिभासरूपगवावसाये तदनन्तरमगोव्यावृत्तेः साम लभ्यत्वेऽन्योन्याश्रयाभावात् परमार्थतः क्वचिदप्यपोहविशिष्टार्थानभिधानेनाधाराधेयभावाद्यनुपपत्ययोगात्, नीलो-तपलादिप्रतिभासावेव प्रातिभासिक वैशिष्टद्याद्याकारभावेनोपपत्तेः 'नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुः' इत्याचार्योक्तेः वस्तुतो बुद्धयारूढार्थाभिधानेऽपि बाह्यार्थाध्यवसायिविकल्पोत्पादनात् जात्याद्यभिधाननिराकरणप्रयोजनकोपचाराश्रयणेनादुष्टत्वात् तदुक्तम् " अर्थान्तरनिवृत्याह विशिष्टानिति यत् पुनः । प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ १ ॥ अन्योन्यत्वेन ये भावा हेतुना करणेन वा । विशिष्टा भिन्नजातीयैर संकीर्णा विनिश्चिताः ॥ २ ॥ वृक्षादीनाह तान् ध्वानस्तद्भावाध्यवसायिनः । ज्ञानस्योत्पादनादेतज्जात्यादेः प्रतिषेधनम् ॥ ३ ॥ बुद्धौ येऽर्थाविवर्तन्ते तानाह जननादयम् । निवृत्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ ४ ॥” इति । अगोव्यावृत्ते वस्तुरूपाया एव विशेषणतयोपादानेन स्वाकारधिया विशेषानुरञ्जनस्याप्युपपत्तेः । न च पुरुषे दण्डस्येवेतरव्यावृत्तेर्गवादर्भेद एव विशेषणत्वोपपत्तिरिति वाच्यम्, अनुपकारकस्य विशेषणत्वायोगात् उपकारकत्वस्य च युगपद-युगपत्कालभावयोः सर्वात्मना परिनिष्पत्य-सामर्थ्याभ्यामयोगात्, काल्पनिकस्य विशेषणविशेष्यभावस्य For Private & Personal Use Only सटीकः । स्तवकः । ॥। ११ ॥ ॥४३४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902