________________
शाख़वातोसमुच्चयः । 1180811
Jain Education In
त्वाद् भावस्य । अवैलक्षण्ये च गौरध्यगौः प्रसज्येत तदवैलक्षण्येन तादात्म्यसिद्धेः । न चानादिकालमवृत्तविचित्रतथार्थविक ल्पवासनाभेदाद् भिन्ना इवार्थात्मान इवास्य भावा अरोहाः समारोप्यन्त इति युक्तम्, अवस्तुनि वासनासंभवात्, वासनाहेतोनिर्विषयप्रत्ययस्यायोगात्' इति । तदपि न, अन्यग्रहणमन्तरेणैव प्रतिभासरूपगवावसाये तदनन्तरमगोव्यावृत्तेः साम
लभ्यत्वेऽन्योन्याश्रयाभावात् परमार्थतः क्वचिदप्यपोहविशिष्टार्थानभिधानेनाधाराधेयभावाद्यनुपपत्ययोगात्, नीलो-तपलादिप्रतिभासावेव प्रातिभासिक वैशिष्टद्याद्याकारभावेनोपपत्तेः 'नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानर्थानाहुः' इत्याचार्योक्तेः वस्तुतो बुद्धयारूढार्थाभिधानेऽपि बाह्यार्थाध्यवसायिविकल्पोत्पादनात् जात्याद्यभिधाननिराकरणप्रयोजनकोपचाराश्रयणेनादुष्टत्वात् तदुक्तम्
" अर्थान्तरनिवृत्याह विशिष्टानिति यत् पुनः । प्रोक्तं लक्षणकारेण तत्रार्थोऽयं विवक्षितः ॥ १ ॥ अन्योन्यत्वेन ये भावा हेतुना करणेन वा । विशिष्टा भिन्नजातीयैर संकीर्णा विनिश्चिताः ॥ २ ॥ वृक्षादीनाह तान् ध्वानस्तद्भावाध्यवसायिनः । ज्ञानस्योत्पादनादेतज्जात्यादेः प्रतिषेधनम् ॥ ३ ॥
बुद्धौ येऽर्थाविवर्तन्ते तानाह जननादयम् । निवृत्या च विशिष्टत्वमुक्तमेषामनन्तरम् ॥ ४ ॥” इति । अगोव्यावृत्ते वस्तुरूपाया एव विशेषणतयोपादानेन स्वाकारधिया विशेषानुरञ्जनस्याप्युपपत्तेः । न च पुरुषे दण्डस्येवेतरव्यावृत्तेर्गवादर्भेद एव विशेषणत्वोपपत्तिरिति वाच्यम्, अनुपकारकस्य विशेषणत्वायोगात् उपकारकत्वस्य च युगपद-युगपत्कालभावयोः सर्वात्मना परिनिष्पत्य-सामर्थ्याभ्यामयोगात्, काल्पनिकस्य विशेषणविशेष्यभावस्य
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥। ११ ॥
॥४३४॥
www.jainelibrary.org