________________
Saaaaane
कल्पनारचितं भेदमाश्रित्योपपत्तेः । 'व्यक्तीनामवाच्यत्वेनानपोहता' इत्यत्र च हेतुरेवासिद्धा, सांवृतस्य वाच्यत्वस्य तत्र
प्रसिद्धः, तात्विकं तु वाच्यत्ववदपोह्यत्वमपि न तत्रेति सिद्धसाध्यता । इत्थं च 'सामान्यस्यापोह्यत्वेन वस्तुना' इत्यत्र 0 हेतोरसिद्धत्वम्, अनैकान्तिकत्वं च । न चापोहेऽपि वस्तुता, साध्यविपर्ययहेतोर्बाधकप्रमाणाभावात् , भावे विधिरूपतया
ऽपोह्यत्वेऽप्यभावत्वेनानपोह्यत्वात् , भवतामपि प्रकृती-श्वरादिजन्यत्वस्य निषेधेऽपि तस्य वस्तुत्वानापत्तिवदस्माकमपोह्यत्वेऽप्यभावस्य वस्तुत्वानापत्तेः, प्रतियोगित्वस्य वस्तुत्वानियतत्वात् , तदभावाभावत्वादिरूपत्वे तस्य षष्ठयर्थाद्यनिरुक्तेः, विशेषणत्वादिवत् कल्पनामात्रनिर्मितत्वात् , आभाससिद्धस्यापि विधि-निषेधोपपत्तेः; अभावग्रहे प्रतियोगिग्रहस्य हेतुत्वेऽपि तत्रानाभासिकत्वस्य गौरवेणाप्रवेशात् । तदिदमुक्तम्
"नाभावोऽपोछते ह्येवं नाभावो भाव इत्ययम् । भावस्तु न तदात्मेति तस्यैष्टैवमपोह्यता ॥१॥ यो नाम न यदात्मा हि स तस्यापोह्य उच्यते । न भावोऽभावरूपश्च तदपोहे न वस्तुता ॥२॥
प्रकृती शादिजन्यत्वं न हि वस्तु प्रसिध्यति । नातोऽसतोऽपि भावत्वमिति क्लेशो न कश्चन ॥३॥"
अपोहावलक्षण्ये गोरगीत्वप्रसङ्गोऽपि वृथा, अश्वादिरूपादगोवस्तुनो गोवस्तुनः स्वरूपतो बैलक्षण्यात , अपोहभेद-सत्तयोश्च तथाविधवासनामूलविकल्पविषयत्वात् , कल्पितवृत्तान्तार्थाद्युपस्थित्यनुरोधेनावस्तुन्यपि वासनोपगमात् । तदुक्तम्
"अगोतो विनिवृत्तेश्च गौर्विलक्षण इष्यते । भाव एव ततो नायं गौरगौमें प्रसज्यते ॥ १॥ अवस्तुविषयेऽप्यस्ति चेतोमात्रविनिर्मिता । विचित्रकल्पनाभेदरचितेष्विव वासना ॥२॥
Jan Education to
For Private Personel Use Only
2
www.jainelibrary.org