________________
शास्त्रवातों
समुच्चयः । 1180411
Jain Education In
ततश्च वासनाभेदाद् भेदः सद्रूपतापि च । प्रकल्प्यतेऽप्यपोहानां कल्पनारचितेष्वित्र ॥ ३ ॥”
raft एवं वाचकाभिमतस्याप्यपोह्यस्याभावः, वासनाभेदात् वाच्यापोहभेदाद् वा सामान्यविशेषवाचिशब्दभेदानुपपत्तेः । न च प्रत्यक्षत एवं शब्दानां कारणभेदाद् विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एवेत्युक्तानुपपत्तिरिति वाच्यम्, वाचकशब्दमङ्गीकृत्यैवमुक्तः, श्रोतृज्ञानावसेयस्य स्वलक्षणात्मनः शब्दस्यावाचकत्वात्, संकेतकालानुभूतस्य व्यवहारकाले चिरविनष्टत्वात् । अगम्यगमकत्वं चैवमवस्तुनोः शब्दार्थयोः स्यात् खपुष्प- शशशृङ्गवत् । न च मेघाभावाद् दृष्टभावप्रतीतेनायमेकान्त इति वाच्यम्, विविक्ताकाशा ऽऽलोकाचात्मकत्वाद् मेघाद्यभावस्य' इति तदप्येतेनैव निरस्तम्, वाच्यापोहस्येव वाचकापोहस्यापि प्रतिविम्वात्मकस्य भेदव्यवस्थाविरोधात् वाच्य वाचकापोहयोर्वाह्यवस्तुत्वेन भ्रान्तैरवसितत्वेन सांतवस्तु.त्वादवस्तुत्वेनागम्यगमकत्वापादनस्याप्ययुक्तत्वात् : पारमार्थिकावस्तुत्वेन पारमार्थिकगम्यगमकभावनिषेधे च सिद्धसाधनात् ;
तदुक्तम् –
" न वाच्यं वाचकं वास्ति परमार्थेन किञ्चन । क्षणभङ्गिषु भावेषु व्यापकत्ववियोगतः ॥ १ ॥” इति । सांवृतगम्यगमकभावनिषेधे तु न तस्य सामर्थ्यम्, काल्पनिकेषु महाश्वेतादिशब्दार्थेषु व्यभिचारात्, शब्दस्वलक्षणस्यापि ताव्यापकत्वेनावाचकत्वात्, कल्पनातो बोधापलापस्य च कर्तुमशक्यत्वात् तदुक्तम्
"तस्मात् तद्वयमेष्टव्यं प्रतिबिम्बादिसांकृतम् । तेषु तद्व्यभिचारित्वं दुर्निवारमतः स्थितम् ॥ १ ॥" 'द्वयम्' इति वाच्यं वाच च । 'प्रतिविम्वादि-' इत्यादिशब्देन निराकारज्ञानाभ्युपगमेऽपि स्वगतं किञ्चित् प्रतिनिय
For Private & Personal Use Only
|सटीकः । स्तवकः । ।। ११ ।।
॥४०५॥
www.jainelibrary.org