SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ तमनर्थेऽर्थत्वाध्यवसायिरूपं गृहीतम् । 'तेषु' कल्पनारचितेष्वर्थेषु । 'तत्' इति तस्मात् , तस्य वाऽवस्तुत्वस्य हेतोः। यदप्यपाहवादे'नीलोत्पलादिशब्दानां विशेषणविशेष्यभावस्य सामान्याधिकरण्यस्य च लोकप्रसिद्धस्यापह्नवः स्यात् , नीलोत्पलादिशब्दानां शवलार्थाभिधायित्व एव तदुपपत्तेः 'न हि तत् केवलं नीलम् , न च केवलमुत्पलम् , समुदायाभिधेयत्वात्' इत्यादिना तेषां शवलार्थाभिधायित्वस्योपपादितत्वात्' इति; तदपि न, नीलपदेन पतिादिव्यावृत्तपदार्थाध्यवसायिनो भ्रमर-कोकिलाऽञ्जनादिषु संशय्यमानरूपस्य, उत्पलपदेन च भ्रमरादिभ्यो व्यवच्छिद्यानुत्पलव्यावृत्तवस्तुविषये व्यवस्थाप्यमानस्य परिनिश्चितात्पकस्य विकल्पप्रतिबिम्बस्य जननात् , परस्परं व्यवच्छेदकव्यवस्थाभावाद् विशेषणविशेष्यभावस्त्र, द्वाभ्यां त्वनालाऽनुत्पलव्यावृत्तकप्रतिविम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामान्याधिकरण्यस्याप्यविरोधात् । परपक्षे तु तद्वयवस्था दुर्घटा; तथाहि- विधिशब्दार्थपक्षे नीलादिपदेन नलादिस्वलक्षणेऽभिहिते उत्पला-ऽञ्जनादिविशेषसंशयानुपपत्तिः, सर्वात्मना नीलस्याभिहितत्वात , एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाता-ऽज्ञातत्वविरोधात् । एवमुत्पलादिशब्दप्रयोगाकाङ्क्षापि न स्यात् , तदर्थस्य नीलशब्देनैव कृतत्वात् । न च नीलशब्देनैकदेशाभिधानादयमदोषः, एकस्य वस्तुनो देशानुपपत्तेः, एकत्वा-ऽनेकत्वयोर्विरोधात् । न च नीलोत्पलपदाभ्यां नीलवो-त्पलत्वविशिष्टद्रव्याभिधानाद् नाकाङ्क्षाद्यनुपपत्तिः, नीलशब्देनाधिकृतद्रव्यस्य सर्वात्मनाभिधाने उत्पलश्रुतेर्वैयर्थ्यप्रसङ्गस्य तदवस्थत्वात् । अर्थान्तरसंशयव्यवच्छेदायोत्पलश्रुतेः सार्थक्ये च भ्रान्तिसमारोपिताकारव्यवच्छेदमात्रस्यैव प्रतिपादने विध्यर्थपक्षक्षतः, तद्विषयकनिश्चयचेतसस्तद्विषयकनिश्चयने ततस्तद्विषयHD कारोपचित्तप्रतिबन्धकत्वेन संशयविषयस्य शब्दार्थत्वायोगाच, समानप्रकारकतादेः प्रतिबन्धकतायां निवेशे गौरवात् । Jain Education in For Private & Personel Use Only Halvww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy