________________
भावेऽपि नीलादिबुद्ध्याऽपोहाव्यवसायेन तस्य विशेषणत्वायोगात् । ज्ञातं सद्यत् स्वाकारानुरक्तबुद्धिं जनयति, तस्यैव विशेषणत्वात् । न चेदमपोहे युज्यते, प्राग ज्ञानात् स्वाकाराधियोऽभावात् , तया विशेष्यानुपरक्तेश्व, भावा-ऽभावयोर्विरोधात् । तदाह
"न चासाधारणं वस्तु गम्यतेऽपोहवत्तया । कथं वा परिकल्प्येत संबन्धो वस्त्व-ऽवस्तुनोः ? ॥१॥ खरूपसत्त्वमात्रेण न स्यात किश्चिद विशेषणम् । स्वयुद्ध्या रज्यते येन विशेष्यं तद् विशेषणम् ॥२॥ न चाप्यवादिशब्दभ्यो जायतेऽपोहबोधनम् । विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ॥३॥ न चान्यरूपमन्यादृक् कुर्याज्ज्ञाने विशेषणम् । कथं वान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ ४॥ अथान्यथा विशेष्येऽपि स्याद् विशेषणकल्पना । तथा सति हि यत् किश्चित् प्रसज्येत विशेषणम् ॥ ५॥
अभावगम्य रूपे च न विशेष्यस्ति वस्तुता । विशषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः ॥ ६॥" इति ।
अपिच, व्यक्तीनामवाच्यत्वेनानपोह्यत्वात् सामान्यस्य तथात्वेन वस्तुत्वं स्यात् । अपोहास्तु नापोह्याः, अभावरूपत्यागेन वस्तुत्वापातात् , वस्तुत्वनियतत्वाच निषेधप्रतियोगित्वस्य तदुक्तम्
“यदा चाशब्दवाच्यत्वाद् न व्यक्तीनामपोह्यता । तदापोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥१॥
नापोह्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः ॥ २॥" इति । अपिच, अपोहानां परस्परतो वैलक्षण्ये गोशब्दाभिधेयस्य गोनिषधवैलक्षण्याद् भावत्वं स्यात् , अभावनिवृत्तिरूप
SCRIDDIOHDINDOOD
SAGAस्यामसार
SOO
Jain Education 1891
For Private & Personel Use Only
www.jainelibrary.org