Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 845
________________ भावेऽपि नीलादिबुद्ध्याऽपोहाव्यवसायेन तस्य विशेषणत्वायोगात् । ज्ञातं सद्यत् स्वाकारानुरक्तबुद्धिं जनयति, तस्यैव विशेषणत्वात् । न चेदमपोहे युज्यते, प्राग ज्ञानात् स्वाकाराधियोऽभावात् , तया विशेष्यानुपरक्तेश्व, भावा-ऽभावयोर्विरोधात् । तदाह "न चासाधारणं वस्तु गम्यतेऽपोहवत्तया । कथं वा परिकल्प्येत संबन्धो वस्त्व-ऽवस्तुनोः ? ॥१॥ खरूपसत्त्वमात्रेण न स्यात किश्चिद विशेषणम् । स्वयुद्ध्या रज्यते येन विशेष्यं तद् विशेषणम् ॥२॥ न चाप्यवादिशब्दभ्यो जायतेऽपोहबोधनम् । विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा ॥३॥ न चान्यरूपमन्यादृक् कुर्याज्ज्ञाने विशेषणम् । कथं वान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥ ४॥ अथान्यथा विशेष्येऽपि स्याद् विशेषणकल्पना । तथा सति हि यत् किश्चित् प्रसज्येत विशेषणम् ॥ ५॥ अभावगम्य रूपे च न विशेष्यस्ति वस्तुता । विशषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः ॥ ६॥" इति । अपिच, व्यक्तीनामवाच्यत्वेनानपोह्यत्वात् सामान्यस्य तथात्वेन वस्तुत्वं स्यात् । अपोहास्तु नापोह्याः, अभावरूपत्यागेन वस्तुत्वापातात् , वस्तुत्वनियतत्वाच निषेधप्रतियोगित्वस्य तदुक्तम् “यदा चाशब्दवाच्यत्वाद् न व्यक्तीनामपोह्यता । तदापोह्येत सामान्यं तस्यापोहाच्च वस्तुता ॥१॥ नापोह्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः ॥ २॥" इति । अपिच, अपोहानां परस्परतो वैलक्षण्ये गोशब्दाभिधेयस्य गोनिषधवैलक्षण्याद् भावत्वं स्यात् , अभावनिवृत्तिरूप SCRIDDIOHDINDOOD SAGAस्यामसार SOO Jain Education 1891 For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902