Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 855
________________ स्यादेतद् दृश्य-विकल्प्याथैकीकरणं नामावाद्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतीतिः, न तु वस्तुगत्या भिन्नयोस्तयोरेकीकरणम् ; तथाचाह-- शब्दात्तद्वासनाबोधो विकल्पश्च ततो हि यत्। तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ११ । शब्दादिति कारणे कार्योपचारात् शब्दज्ञानात् , तद्वासनाबोधः-विशिष्टविकल्पवासनाबोधः, विकल्पश्च-विशिष्टविकल्पश्च, ततो हि-तत एव विशिष्टवासनाबोधात् , यद्-यस्मात् । तत्-तस्मात् , इत्थमुच्यते-'दृश्य-विकल्प्यावर्थावेकीकृत्य' इत्येवमभिधीयते, अस्माभिः, विकल्पवैशिष्टयाद् गवाद्यर्थप्रतीतेर्गवाद्यर्थप्रवृत्ते, भ्रमात् प्रवृत्तस्यापि स्वलक्षणपतिबन्धेन प्राप्तेर्गवादिबोधनाद्यर्थ निवेदनादेश्वोपपत्तेरिति भावः । एतदाशङ्कयाह-न-नैतदुक्तम्, ततः- शब्दात , तदसिद्धितः- विशिष्टवासनाबोधासिद्धेः ।। ११ ॥ एतदेवोपपादयतिविशिष्टं वासनाजन्म बोधस्तच्च न जातुचित्। अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतःन विशिष्टम् - तथाविधविकल्पजननस्वभावम् , वासनाजन्म-वासनोत्पाद एव, बोधः-प्रकृतवासनाबोधो वाच्यः; तच्चविशिष्टवासनाजन्म, न जातुचित- न कदाचित, युज्यते । कथम् ? इत्याह- अन्यत:- अन्यस्मात् सहकारिणः, तुल्य १ सर्वत्र मूले 'ल्पस्य' इति पाठः । RE omala Jain Education Intent For Private & Personel Use Only w w.jainelibrary.org

Loading...

Page Navigation
1 ... 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902