Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 859
________________ एतदेव स्पष्टयति अन्यदोषो यदन्यस्य युक्तियुक्तो न जातुचित् । व्यक्तावर्ण न बुद्धानां भिक्ष्वादि शबरादिवत् । अन्यदोषः - अर्थान्तरभूतवस्तुदोषः, यद्- यस्मात् अन्यस्य- अर्थान्तरस्य, न युक्तियुक्तः न प्रमाणोपपन्नः, जातुचित् कदाचित् । प्रतिवस्तूपमया द्रढयति- बुद्धानाम्- भगवताम्, भिक्ष्वादि- भिक्ष्वादिपदम् शवरादिवत्शवरादिपदवत् व्यक्तावर्ण- न व्यक्तो वर्णो येनेति विग्रहादवर्णव्यञ्जकम् न । तथा च शवरादिभिक्ष्वादिपदानां जातिभेदादवर्णव्यञ्जका व्यञ्जकत्ववत् प्रधान गवादिपदानामपि प्रवृत्तिनिमित्तवैकल्या-वैकल्ये नायुक्ते इति भावः । न चैवं प्रधानाद्यर्थासित्वात् तत्र प्रधानादिपदाशक्तेस्तेषामप्रत्यायकत्वापत्तिः, अर्थासत्त्वेऽपि मृषाभाषावर्गणाप्रसूतानां शब्दानां तच्छब्दजनन्याः शक्तेरविरोधात् । न चैवं प्रधानादिपदजनितविकल्पस्याखण्डप्रधानत्वादिविशिष्टविषयकत्वेऽसख्यात्यापत्तिः, विकल्पस्यापि कस्यचिदखण्डैकविषयत्वाननुभवात्, निरंशेऽर्थे संशयधीप्रसरायोगात् प्रकृते यथान्यसमय संकेतानुसारं शशविषाणादिसंकेतित तदादिपदार्थवद्वाक्यार्थमयत्वात् पदार्थस्य तत्सद्भावतात्पर्यादसद्भूतोद्भावनरूपमृषावादोपपत्तेः । अत एव परसमयाभिधानपराणां निषेधपराणां चासत्यभाषा वर्गणा प्रभूतवाक्य स्थानां प्रकृत्यादिपदानां सद्भावानभिप्रायाद् न मृषात्वम् । अत एव च पाण्डुरपत्र किशलयादिवृत्तान्तार्थानामुपमावचनानां स्वार्थवाऽपि तात्पर्ये प्रामाण्याद् न तथात्वमिति दिग् । तत्रमत्रत्यं मत्कृतभाषारहस्यादवसेयम् ॥ १८ ॥ Jain Education national For Private & Personal Use Only ୨୦୦୧ ୧୦୨°999909BSC www.jainelibrary.org

Loading...

Page Navigation
1 ... 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902