________________
एतदेव स्पष्टयति
अन्यदोषो यदन्यस्य युक्तियुक्तो न जातुचित् । व्यक्तावर्ण न बुद्धानां भिक्ष्वादि शबरादिवत् ।
अन्यदोषः - अर्थान्तरभूतवस्तुदोषः, यद्- यस्मात् अन्यस्य- अर्थान्तरस्य, न युक्तियुक्तः न प्रमाणोपपन्नः, जातुचित् कदाचित् । प्रतिवस्तूपमया द्रढयति- बुद्धानाम्- भगवताम्, भिक्ष्वादि- भिक्ष्वादिपदम् शवरादिवत्शवरादिपदवत् व्यक्तावर्ण- न व्यक्तो वर्णो येनेति विग्रहादवर्णव्यञ्जकम् न । तथा च शवरादिभिक्ष्वादिपदानां जातिभेदादवर्णव्यञ्जका व्यञ्जकत्ववत् प्रधान गवादिपदानामपि प्रवृत्तिनिमित्तवैकल्या-वैकल्ये नायुक्ते इति भावः । न चैवं प्रधानाद्यर्थासित्वात् तत्र प्रधानादिपदाशक्तेस्तेषामप्रत्यायकत्वापत्तिः, अर्थासत्त्वेऽपि मृषाभाषावर्गणाप्रसूतानां शब्दानां तच्छब्दजनन्याः शक्तेरविरोधात् । न चैवं प्रधानादिपदजनितविकल्पस्याखण्डप्रधानत्वादिविशिष्टविषयकत्वेऽसख्यात्यापत्तिः, विकल्पस्यापि कस्यचिदखण्डैकविषयत्वाननुभवात्, निरंशेऽर्थे संशयधीप्रसरायोगात् प्रकृते यथान्यसमय संकेतानुसारं शशविषाणादिसंकेतित तदादिपदार्थवद्वाक्यार्थमयत्वात् पदार्थस्य तत्सद्भावतात्पर्यादसद्भूतोद्भावनरूपमृषावादोपपत्तेः । अत एव परसमयाभिधानपराणां निषेधपराणां चासत्यभाषा वर्गणा प्रभूतवाक्य स्थानां प्रकृत्यादिपदानां सद्भावानभिप्रायाद् न मृषात्वम् । अत एव च पाण्डुरपत्र किशलयादिवृत्तान्तार्थानामुपमावचनानां स्वार्थवाऽपि तात्पर्ये प्रामाण्याद् न तथात्वमिति दिग् । तत्रमत्रत्यं मत्कृतभाषारहस्यादवसेयम् ॥ १८ ॥
Jain Education national
For Private & Personal Use Only
୨୦୦୧ ୧୦୨°999909BSC
www.jainelibrary.org