________________
सटीकः। स्तबकः । ॥ ११॥
शास्ववार्ता- प्रभवाः, न दोषाः-नानिष्टापादकाः, न:-अस्माकम् , न चान्येऽपि-'परमार्थंकतानत्वे' इत्यादिनोक्ताः। कुतः? इत्याह-हेतुभेद- समुच्चयः। तिः -कारणभेदेन, तद्भेदात् शब्दभेदात् : 'अतीता-जातयोश्च विद्यमानवत् स्व काले सत्त्वेन तत्र शब्दप्रवृत्तेरविरोधाच्च' इत्यपि ॥४१०॥ पूरणीयम् ॥१५॥
_ उक्तमेवोपपादयतिवन्ध्येतरादिको भेदो रामादीनां यथैव हि । मृषा-सत्यादिभेदानां तद्वत्तद्धेतुभेदतः॥१६॥
वन्ध्ये-तरादिकः- बन्ध्या-ऽवन्ध्यादिकः, भेदः-विशेषः, यथैव हि रामार्दानाम्- स्त्रीप्रभृतीनाम् , सकललोकमतीतः, आदिभ्यां मत्कुणा-ऽमत्कुणपुरुषादिग्रहः, मृषा-सत्यादिशब्दानाम् , आदिना सत्यमृषा-ऽसत्यामृषापरिग्रहः, तद्वत्-वन्ध्ये-तरादिरामादिवत् , 'भेदः' इत्यनुषज्यते; तद्धेतु भेदतः- मृषादिशब्दहेतुभेदात् , सत्यादिभाषाद्रव्यवर्गणानां भेदाभ्युपगमादिति ॥१६॥
यतश्चैवम् , अतः किम् ? इत्याह-. परमार्थंकतानत्वेऽप्युक्तदोषोपवर्णनम्। प्रत्याख्यातं हि शब्दानामिति सम्यग् विचिन्त्यताम्॥
परमार्थंकतानत्वेऽपि- वस्त्वेकगोचरत्वेऽपि, शब्दानामुक्तदोषोपवर्णनम् - दर्शनान्तरभेदिषु प्रधानादिष्वप्रवृत्त्याद्यभिधानलक्षणम् , प्रत्याख्यातं हि- निराकृतमेवः इति- एतत् , सम्यग्- माध्यस्थ्येन, विचिन्त्यताम् , प्रधानादिपदानां प्रवृत्तिनिमित्तवैकल्ये गवादिपदानां तदापादनस्यायुक्तत्वात् , अत्यन्तं मिथो भेदात् ॥१७॥
॥४१०॥
For Private Personal use only