________________
स्वभावमुपादानं युक्तम् । तथाहि- नास्यापि स्वहेतुरविशिष्टः सन्निदं विशिष्टं जनयेत्, न चान्यतो विशिष्येतापि, इति केवलस्यैव वैशिष्टयमेष्टव्यम् । एवं च सर्वत्रैवैतत् , इति प्रतीतिवैशिष्टयाभावे तद्वासनाबोधानुपपत्तिरिति । दोषान्तरमाहस्याच नाशो भवतामपि, सहेतुकः- उत्पादहेतुव्यतिरिक्तहेतुसापेक्षः । इत्थं प्रकल्पने- 'स्वहेतोरेवानुपकारिणमपि सहकारिणमवाप्य विशिष्टापरजननस्वभावमेतत्' इत्येवं प्रकल्पने, एतदपि वक्तुं शक्यत एव-'अकिश्चित्करमपि नाशहेतुमवाप्य नित्तिस्वभावमेतज्जातम्' इति विशिष्टोत्पादवत् सहेतुको नाश आपन्नः, न्याया- भवत्कल्पितयुक्तः । अनिष्टं चैतद् भवतः । अतः- अस्मात् कारणात् , एतत्- इत्थं स्वभावकल्पनम् , न युक्तिमत् । एवं च स्वनीतितो विकल्पानुपपत्तेर्वचनमात्रमेवैतद् यदुत- 'दृश्य-विकल्प्याथैकीकरण नामाबाह्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतिपत्तिः' इति । विरुद्धं च बाह्याकाराया धियोऽवाह्यालम्बनत्वम्, अन्यथा पीताकाराया अप्यपीतालम्बनत्वेनाव्यवस्थापत्तेः । एतेन 'शाब्दविकल्पेऽसद्विषयकृतं वैशिष्टयं प्रत्यक्षसिद्धमेव, वासनायां वैशिष्टयं तु तत्कुर्वद्रूपत्वं स्वभावत एव' इत्यपि निरस्तम् , तत्कुर्वद्रूपस्यापि कादाचित्कवेन हेतु नियम्यत्वाच्च; अन्यथोत्पादस्याप्यतत्वापचेरिति दिग् ॥ १४ ॥
परोक्तदोषजालं निराचिकीर्षनाहअनभ्युपगमाचेह तादात्म्यादिसमुद्भवाः। नदोषा नोन चान्येऽपि तद्भेदाढेतुभेदतः॥१५॥
अनभ्युपगमाञ्च-अनङ्गीकरणाच्च, इह-प्रकृतविचारे, तादात्म्यादिसमुद्भवाः-शब्दा-ऽर्थयोस्तादात्म्य-तदुत्पत्तिविकल्प
දමය තgasewa
vido
For Private Personal Use Only
www.jainelibrary.org
Jan Education