________________
100
शास्त्रवार्तासमुच्चयः ॥४११॥
ननु शब्दभेदसिद्धौ तस्य हेतुभेदनियम्यत्वादु हेतुभेदसिद्धिः, तत्सिद्धौ च शब्दभेदसिद्धिरित्यन्योन्याश्रय इत्याशक्याह--
सटीकः। स्तबकः। ॥ ११॥
ज्ञायते तद्विशेषस्तु प्रमाणे-तरयोरिव । स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि ॥१९॥
ज्ञायते प्रमातृभिः, तद्विशेषस्तु- सत्ये-तरशब्दभेदस्तु, प्रमाणे-तरयोरिव-प्रमाण-तदाभासयोरिव, 'स्वकृतप्रतिभाससा. म्येऽपि विशेषः' इति योजना स्वरूपालोचनादिभ्यः-संवादा-ऽसंवादनिरूपणादिभ्यः । एषां भेदव्याप्यत्वमाह- भुवि-पृथिव्याम् , तथादर्शनतः, अनेन प्रकारेण तद्भेदसिद्धः, परैरपि सद-ऽसदर्थप्रतिभासाविशेषेऽपि संवादा-ऽसंवादाभ्यामेव भेदाभ्युपगमात् । न चैकान्ततुल्ययोः संवादा-संवादसंभव इति विभावनीयम् । अथ स्वातिरिक्तगुण-दोषसंबन्धादेव तेषामेकान्ततुल्यत्वं न भविष्यति, इति किं स्वरूपभेदेन ?; अन्यथा कालभेदेन भ्रम-प्रमाजनकचक्षुरादरपि स्वरूपभेदः स्यादिति चेत् । न, सत्ये-तरादिशब्दानां सर्वथा स्वरूपाभेदे संवादे-तराद्यनापत्तेः, कार्यभेदे स्वभावभेदस्य प्रयोजकत्वात् , सहकारिभेदस्याप्यजनकस्वभावपरित्यागौपयिकत्वात् , निर्मला-निर्मलचक्षुरादेरपि स्वरूपभेदाभ्युपगमात् । इध्यते च सत्ये-तरादिव्यवहारभेदादपि सत्ये-तरादिभेदः, असति बाधके व्यवहारस्यापि प्रमाणत्वात , स च हेतुभेदमाक्षिपतीति कान्योन्याश्रयः ? इति दिग् ॥१९॥
नन्वेवं शब्दा-ऽर्थयोः स्वाभाविकसंबन्ध-सत्येतरादिभेदसाम्राज्ये संकेतवैयर्थ्यम् , स्वत एव शब्दस्यार्थप्रतिपादन
॥४१॥
Jain Education
:
For Private Personal Use Only
www.jainelibrary.org