________________
EEKOOOOOOOKO
GOOOKIORK
A योग्यतायां संकेतादर्शिनोऽपि स्वतोऽर्थप्रतिपत्त्यविरोधादित्याशङ्क्याह--
समयापेक्षणं चेह तत्क्षयोपशमं विना।तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते ॥२०॥
समयापेक्षणं च- संकेतप्रतिसंधान्वय-व्यतिरेकानुविधानं च, इह- शब्दस्थले, तत्क्षयोपशमं विना- शब्दार्थसंबन्धज्ञानावरणक्षयोपशमं विना, तत्कर्तृत्वेन- उक्तक्षयोपशमकर्तृत्वेन, सफलं- सार्थकम् , शाब्दबोधे शक्तिग्रहस्यैव हेतुत्वेऽपि संकेतस्य तदभिव्यञ्जकत्वेनोपयोगात् । यत्तु 'एवं शक्तिव्यञ्जकत्वाभिमतस्य संकेतग्रहस्यैव शाब्दबोधहेतुत्वौचित्यम्' इति तन्न, पदभ्यासे संकेतपननुस्मृत्यापि वाच्यताज्ञानेन शाब्दबोधोदयेन व्यभिचारात् । यत्तु 'अतिरिक्तशक्त्यभावज्ञानेऽपि शाब्दबोधोदयात् संकेतज्ञानमेव शाब्दप्रयोजकम्' इति तत्तु धर्म-धर्मिणोर्भेदाभेदवादिनां न दोषावहम् , तत्पदबोध्यत्वाकारकेच्छाविषयत्वस्य गौरव-व्यभिचाराभ्यामतन्त्रत्वात् । एनेन 'तत्तत्पदबोद्धव्यत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यत्वं तत्तत्पदा
मात्रवृत्तितत्तत्पदवाच्यत्वम्' इति नैयायिकादिमतमपास्तम् , लक्ष्यादावतिप्रसक्तत्वात् , ईश्वरमनङ्गीकुर्वतामपि वाच्यत्वव्यवहारात, लाघवाच्च तत्पदबोध्यरूपस्यार्थधर्मस्यैव तत्वात् । न चैवं लक्षणोच्छेदः, अर्थान्तरवोधार्थमाश्रीयमाणे संकेतान्तर एव तद्वयपदेशात् । युक्तं चैतत् , शाब्दबोधे शक्ति-लक्षणान्यतरत्वेन प्रयोजकत्वापेक्षया शक्तित्वेनैव तत्त्वौचित्यादिति दिग् । नन्वेवं सममस्य क्षयोपशमार्थत्वे सर्वत्र गलितावरणानां योगिनां वाचकप्रयोगार्थ तदपेक्षा न स्यात् , इत्यत इष्टापत्तिमाहयोगिनां तु न विद्यते समयापेक्षणम् , स्वयमेव वाच्यवाचकभावं ज्ञात्वा वाचकप्रयोगादिति ॥ २०॥
Jan Educaton nemanona
For Private Personel Use Only
www.jainelibrary.org