Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवातासमुच्चयः ॥४०॥
तस्यावस्तुत्वात् , इन्द्रियाणां च वस्तुविषयत्वात् । न चान्यव्यावृत्तं स्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यते, अन्यापोहादन्यत्र शब्द- सटीकः। वृत्तेः प्रवृत्त्यनभ्युपगमात् । नाप्यनुमानेनापोहाध्यवसायः, न चान्वयविनिर्मुक्ता प्रवृत्तिः, 'शब्द लिङ्गयोः' इत्यादिना तत्पतिषे- For स्तबकः।
॥११॥ धात्' इति तदप्यत एव निरस्तम् , स्खलक्षणात्मनोऽपोहस्येन्द्रियैरेव गम्यत्वात, अर्थप्रतिविम्बात्मनश्च परमार्थतो बुद्धिसभावत्वेन स्वसंवेदनप्रत्यक्षत एव सिद्धेः, प्रसज्यप्रतिषेधात्मनोऽपि सामर्थ्यगम्यत्वात् । यदपि 'इतरेतराश्रयदोषप्रसक्तरपोहे संकेतोऽशक्यक्रियः; तथाहि- अगोव्यवच्छेदेन गोः प्रतिपत्तिः, स चागौगोनिषेधात्मा, तत्र नत्रा निषेध्यो गौतिव्यः, अनिातस्वरूपस्य निषेद्धमशक्यत्वात् ; एवं च गोरगौपतिपत्तिद्वारा प्रतीतिः, अगोश्व गौपतिपत्तिद्वारा, इति व्यक्तमितरतराश्रयत्वम् , प्रतीते च प्राग गवि किमपोहेन ?, अप्रतीते च कथं तत्प्रत्ययः ? इति; तदाह
"सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः । तत्र गौरव वक्तव्यो ना यः प्रतिषिध्यते ॥ १ ॥ स चेदगोनिवृत्तात्मा भवेदन्योन्यसंश्रयः । सिद्धश्चेद् गोरपोहाथ वृथाघोहमकल्पनम् ॥२॥
गव्यसिद्धे त्वगौर्नास्ति तदभावेऽपि गौः कुतः ? ।" इति । __ अपिच, एवं नीलोत्पलादिशब्दानामर्थान्तरनिवृत्तिविशिष्टार्थाभिधायकत्वमपि दिङ्नागोक्तं विरुद्धमेव, अनीला-ऽनुत्पलादिव्यवच्छेदरूपतयाऽभावक रूपाणां नीलोत्पलाद्यर्थानामाशराधेयभावाद्यनुपपत्तेः; तदुक्तम्- "नाधाराधेयवृत्यादि संबन्धश्चाप्यभावयोः" इति । न चानीला-ऽनुत्पलाभ्यां व्यानं वस्त्वेवार्थान्तरनिवृत्त्या विशिष्टमुच्यत इति युक्तम् । स्खलक्षणस्यावाच्यत्वात् । न च स्खलक्षणस्यान्यनिवृत्त्या विशिष्टत्वमपि युज्यते, वस्त्व-ऽवस्तुनोः संबन्धाभावात् , वस्तुयाधारत्वात् तस्य ।
गवि किपपोहेन ?, अमारगोमतिपत्तिद्वारा मतीतिः, मनिषधात्मा, तत्र नत्रा निषेध्या मासक्तरपोहे संके-10
Jain Education International
For Private & Personel Use Only
ASTwww.jainelibrary.org

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902