________________
घातात ; अन्यथा पराघातनामकर्मोदयात् केवली पराहननाद्यपि कुर्यात् । पुण्यप्रकृतयस्तु विशुद्धिप्रकर्षात् पीनविपाकाः कृता इति तद्विपाकमावल्यमेव तत्र' इति केनचिदुच्यते । तत् तुच्छम् , रसघाताद् रसस्येव स्थितिघातात् स्थितेरप्युच्छेदप्रसङ्गात् । तथाविधस्थितौ च व्यवस्थितायां तथाविधरसः कस्य पाणिना पिधेयः ? । अर्वागेव च सर्वथा भवोपग्राहिपापकर्मरसघाते समुद्धातवैयर्थ्यम् । न खलु सत्कर्मसमीकरणायैव समुद्धातः, सत्कर्मण एव चाधिक्यं तदेत्यत्र मानमस्तीति किमुत्सूत्रविस्यन्दितेन । पराघातोदयेन च परेषां दुर्धर्षताद्यभिव्यङ्ग्यं स्वफलं क्रियत एव; परहननादिकं तु मोहकार्यमेव, इति कथं ततस्तदापादनम् ? । परे तूदीरणां विना प्रचुरपुद्गलोपनिपाताभावाद् भगवदसातवेदनीयस्य दग्धरज्जुस्थानिकत्वमूचुः । तदपि न पेशलम् , एवं सति सातवेदनीयस्यापि तथात्वप्रसङ्गात् , सम्यग्दृष्टयायेकादशगुणस्थानेषु गुणश्रेणीसद्भावात् , तदधिकपुद्गलोपसंहारादधिकपीडाप्रसङ्गाच । तस्माद् यथाऽनुभागमेव फलसंभव इति विभावनीयम् ।
अपरे तु बल-पुण्योदयाभिभूतत्वमेव पापप्रकृतीनां दग्धरज्जुस्थानिकत्वमनुमन्यन्ते । तदप्यसत् , बलवत्सजातीयसातोदयस्य परिवर्तमानतयाऽसातानभिभावकत्वात् । पुण्यप्रकृत्यन्तरोदयस्याभिभावकत्वे च चक्रवादीनामपि क्षुदनीयाद्यभिभवप्रसङ्गात् । एतेन 'देवानामपि पुण्याभिभूतं वेदनीयं नास्मदादिसाधारणक्षुदादिजनकम्, देवाधिदेवानां तु कैच कथा ?' इति पामरपलपितं परास्तम् । न खलु देवानां वेदनीयम् 'अभिभूतम्' इत्येव विचित्रस्वकायाक्षमम् , अपि तु तद्भवोपग्रहनिबन्धनविचित्रादृष्टयशादौदर्यज्वलनविशेषाद्यनुपष्टम्भहेतुकमिति । यदि च सर्वथा भगवति क्लेशो नेष्यते कथं तर्हि "एकादश जिने"
१ तत्त्वार्थाधिगमसूत्रे ९ । ११ ।
Coloratiottes
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org