SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ शास्त्रबार्ता नवा समुच्चयः ॥३९४॥ सर्टीकः। स्तवकः। । एन सन्ति वाणां भगवत्युपोजनजनकतावश इति तु वै इति भगवत्येकादशपरीपहाऽऽवदेकं सूत्रं समर्थनयिम् ? । 'एकादश' इत्यनन्तरं 'न सन्ति' इत्यध्याहारादिति चेत् । न, स्वामि- त्वचिन्ताधवसरेऽस्य विपरीतव्याख्यानत्वात् । एतेन 'एकेनाधिका दश न' इत्यप्यपव्याख्यानं द्रष्टव्यम् , तथा समासायोगाच्च । इत्थं च 'एकादश जिने सन्ति, वेदनीयसत्त्वात् , न सन्ति वा, मोहाभावात्' इति द्वेधा व्याख्यातुः सर्वार्थसिद्धिकृतोऽपि महाननर्थ एवोपतिष्ठते । वेदनीयात्मककारणसत्वादेकादशपरीपहाणां भगवत्युपचारे मोहसत्वमात्रेणोपशान्तवीतरागेऽपि द्वाविंशतिपरीषहाभिधानप्रसङ्गात् : 'न सन्ति' इत्यध्याहारस्याप्रामाणिकत्वाच । भोजनजनकतावच्छेदकजात्यभाववत्क्षुदादिपरीपहकल्पने च न मानमस्ति । 'अयोगिन्युपचारावश्यकत्वात् सयोगिन्यप्येकादशानामुपचारौचित्यम्' इति तु वैलक्ष्यभापितम् , श्रेण्यामप्युपचारापत्तेः । शक्ति व्यक्तियोग्यताभ्यां श्रेण्यां नोपचार इति चेत् । अन्यत्रापि सुवचमेतत् , कालविशेषादिसहकार्यवाप्त्यैव सयोगिन्यभिव्यक्तरिति दिग् । यदपि- 'न चातीन्द्रियस्य' इत्याद्यभिहितम् , तदपि न चतुरचेतोहरम् , तृष्णाधानद्वारके सुखे दुःखे वेन्द्रियाणां तज्जन्यज्ञानस्य वा हेतुत्वेऽप्यन्यत्र तथाविधपरिणामादेव द्रव्य-क्षेत्रादिसंपत्तिलब्धविपाककर्मकृतात सुख-दुःखोपपत्तेः। आहारसंज्ञा-रुची चन क्षुदुःख-मुक्तिसुख योर्हेतू , किन्तवार्तध्यानजन्यदुःख-तत्प्रतिकारसुखयोः, अवमकोष्ठताक्षुद्वेदनीयोदयमतितदर्थोपयोगमभवयेष्टाभिलापरूपातध्यानमय्याऽऽहारसंज्ञया क्षुदुःखाभिवृद्धौ भुक्त्यप्राप्तौ तदुःखवेगमसहमानानां वेदनावियोगप्रणिधानरूपार्तध्यानाभिवृद्ध्या क्रन्दनाधभिव्यङ्ग्यमानसदुःखजननात , भुक्तिप्राप्ती चेष्टाभिष्वङ्गेन मनसा सुखवेदनात् । न चेयं मध्यस्थेषु गतिः, अतिचारजनन्योराहार-रच्योस्तेष्वनुपपत्तेः। न हि विहितानुष्ठानेऽप्यतिचारो नाम । एतेन 'आहारसंझा विना केवलिनो S PROPOROolars Preetaca ||३९४॥ Jan Education et For Private 3 Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy