________________
Joos
नाहारः, मैथुनसंज्ञा विनाऽब्रह्मेव' इति कुचोद्यमपास्तम् , महर्षीणामिव भगवतो विनाप्याहारसंज्ञामाहारोपपत्तेः, अन्यथा । तेषामाहारसंज्ञयाऽऽहारवद् मैथुनसंज्ञयाऽब्रह्माप्यदुष्टं स्यादिति । यच्चोक्तम्- 'औदारिकव्यपदेशस्तु भगवच्छरीरस्योदारत्वाद्
न तु भुक्त' इति । तत्तु न दोषावहम् , औदारिकशरीरित्वे स्वकारणाधीनाया भुक्तेरप्रतिषेधात् , व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतभुक्तिसिद्धः।।
यदपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां मूत्र उपदेशात्' इत्याद्युक्तम् । तदप्यसंगतम् , एकेन्द्रियादिसहचरितत्वनिरन्तराहारोपदेशमन्तरेणापि “विग्गहगइमावण्ण-" इत्यादिमूत्रसंदर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम् , सर्वज्ञप्रणीतत्वेनाभ्युपगतमूत्रस्येव प्रामाण्योपपत्तेः । न च तत्तणीतागमैकवाक्यतया प्रतीयमानस्याप्यस्यातत्पणीतत्वम्, अन्यत्रापि तत्मसक्तेः । शरीरप्रायोग्यपुद्गलग्रहणमेवात्राहारत्वेनाभिमन्यमानस्य च भवतो विग्रहगत्यापन्नसमवहतकेवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणे शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमित्यपूर्व सामायिकशब्दार्थकल्पनकौशलम् । यदपि 'निरन्तराहारत्वं केवलिनस्तेनाहारेण समुद्धातक्षणत्रयमपहाय भवेत्' इत्युक्तम् । तदप्ययुक्तम् , विशिष्टाहारस्य विशिष्टकारणप्रभवत्वात् , तस्य च प्रतिक्षणमसंभवात् । यस्तु पुद्गलादानलक्षणो लोमाद्याहारः, तस्य प्रतिक्षणं सद्भावेऽप्यदोषात् । यदपि 'यथासंभवमाहारव्यवस्थितेः केवलिनः कवलाहारः, अन्यथा शरीरस्थितेरभावात्' इत्यभिधानम् । तदपि युक्तमेव । न हि देशोनपूर्वकोटिं यावद् विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः संभविनी । न
विग्रहगतिमापन-1
PPPR
Jan Education
For Private Personal Use Only
www.jainelibrary.org