SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः। ॥३९५॥ च तच्छद्मस्थावस्थातः केवल्यवस्थायामात्यन्तिकं तच्छरीरस्य विजातीयत्वम्, 'येन प्रकृताहारविरहेऽपि तच्छरीरस्थितेरविरोधो | सटीकः। भवेत, ज्ञानाद्यतिशयेऽपि प्राक्तनसंहननाद्यधिष्ठितस्य तस्यैवापातमनुवृत्तेः । अस्मदाद्यौदारिकशरीरविशिष्टस्थितेर्विशिष्टा स्तवकः। हारनिमित्तत्वं च प्रत्यक्षा-ऽनुपलम्भप्रभवप्रमाणेन सर्वत्राधिगतम् , इति विशिष्टाहारमन्तरेण तत्स्थितेरन्यत्र सद्भाचे कचिदपि ॥१०॥ तस्थितिस्तन्निमित्ता न भवेत् । अथौदारिकशरीरस्थितित्वं न कवलाहारजन्यतावच्छेदकम् , एकेन्द्रियशरीरस्थितौ व्यभिचारात ; नाप्यस्मदादिशरीरस्थितित्वम् , अस्मदादित्वस्याननुगतत्वात् , किन्तु विजातीयशरीरस्थितित्वम् ; तच्च वैजात्यं केवलिशरीरे नास्ति, मोहक्षयेण रुधिरादिधातुरहितस्य मूत्र-पुरीषादिमलाधायिकवलाहारानपेक्षस्य परमौदारिकशरीरस्यैव । भावादिति चेत् । न, केवलिशरीरस्य कवलाहारानपेक्षत्वसिद्धौ परमौदारिकत्वसिद्धिः, तत्सिद्धौ च कवलाहारानपेक्षत्वसिद्धिरित्यन्योन्याश्रयात् । न च मोहक्षयेण परमौदारिकत्वमप्युत्पादायतुं शक्यम् , भवोपष्टम्भकशरीरोपमर्दैन शरीरान्तरोपग्रहे भवान्तरप्रसङ्गात् । अवस्थितशरीरस्यातिशयश्च न रुधिरादिधातूपष्टब्धमनुष्यशरीरत्वजात्युच्छेदेन संभवति । न ह्यतिशयितोऽपि पद्मरागो मुक्तामणीभवति । कथं चैवं पुद्गलविपाकिवज्रर्षभनाराचसंहननप्रकृतिविपाकोदयस्तत्र स्यात् ?, अ. स्थि-पुद्गलेष्वेव तस्या विपाकदर्शनात् "संहयणमट्टिणिचओ" इति वचनात् । न चास्थि-पुद्गलेषु दृढतररचनाविशेष एव तप्रकृतिजन्य इति नियमो न तु तेष्वेवेति वाच्यम् , दृढावयवशरीराणां देवानामपि तत्पसङ्गात् । किञ्च, मोहक्षयस्य तत्कार्यराग-द्वेषविलयद्वारा ज्ञानोत्पादकत्वमेव, न तु शरीरातिशायकत्वम् , नामकर्मातिशयादेव जात्यनुच्छेदेन प्रशस्तसंहननादि- ||३९५॥ १ क. 'यतः'। २ संहननमस्थिनिचयः । Jain Education Intema For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy