________________
रूपशरीरातिशयोपपत्तेः; तथा चागमः
संघयण-रूव-संठाण-चण्ण-गइ-सत्त-सार-उसासा । एमाइणुत्तराई हवंति णामोदया तस्स ॥१॥"
न च नामातिशयस्य संहननाद्यतिशायकवज्जाठरानलनाशकत्वमपि कचिदुक्तं युक्तं वा, तत्कारणीभूततथाविधतैजसशरीरविघटनप्रसङ्गात् , लब्धीनां कारणघटन-विघटनद्वारीव कार्यघटन-विघटनयोस्तन्त्रत्वात् । किश्च, अत्यन्तवैजाये भगवच्छरीरस्य षष्ठशरीरपरिकल्पनाप्रसङ्गः, धातुमच्छरीरस्थिति-वृद्ध्योः क्षुज्जनितकााद्यपनायकधातूपचयादिद्वारा कवलाहारस्य स्थूलौदारिकस्थिति वृद्धिसामान्ये स्थूलाहारस्य वा हेतुत्वात् ; अबोचाम च
“ओरालियत्तणेणं तह परमोरालिअंपि केवलिणो | कहलाहारावेक्खं ठिई च बुडिंढ च पाउणइ ॥१॥"
तस्माद् धूमसामान्ये वढेरिव विशिष्टौदारिकस्थितिसामान्ये कवलाहारस्य हेतुत्वात् तदभावे चिरतरकाला भगवच्छरीरस्थितिन संभवतीति सिद्धम् । सर्वज्ञतादिकं तु घातिकर्मक्षयादुपपद्यते । न च प्रकृताहारेण, तत्कारणेन, तत्कार्येण, तव्यापकेन वा सर्वज्ञतादेविरोधः, आहारस्य साक्षात् , ज्ञानादिघातकत्वेन चाऽविरोधात् । तत्कारणस्य क्षुद्वेदनीयोदयादेरतथात्वात् , मोहादेश्च तत्कारणत्वनिरासात् । तत्कार्यस्यापि चिरकालभाव्यौदारिकशरीरस्थितेरतथात्वात् । प्रमादश्च न तत्कार्यम् , योगदुप्पणिधानस्यैव तन्निमित्तत्वात् , तस्य च राग-द्वपकृतत्वात् । एतेन 'आहारकथयैव चेद् यतीनां प्रमत्तत्वम् , तर्हि कथं
संहनन-रूप संस्थान-वर्ण गति-सत्त्व सारो-च्छ्वासाः । एवमाद्यनुत्तराणि भवन्ति नामोदयात् तस्य ॥१॥ २ औदारिकत्वेन तथा परमौदारिकमपि केवलिनः । कवलाहारापेक्षं स्थिति च वृद्धिं च प्रकरोति ॥ १ ॥
Jain Education d
iona
For Private & Personal Use Only
www.jainelibrary.org