SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ सटीकः । | स्तबकः। शानवार्ता- नाहारं कुर्वतां भगवतां तदापद्यते ?' इति प्रभाचन्द्रोक्तं निरस्तम् , देशकथावदाहारकथया रागादिपरिणामकृतया दोषोपपत्तावपि साचयः। देशवदाहारस्योदासीनस्यानपराधात् , अन्यथाऽऽहारकथयेवाहारेणापि सुसंयतानामतीचारपसङ्गात । निद्रापि न तत्कार्यम् , दर्श॥३९६।। नावरणप्रकृतिजन्यत्वात तस्याः। न च ध्यान-तपोव्याघातौ तत्कार्ये, शैलेशीकरणप्रारम्भात् माग ध्यानानभ्युपगमात : अभ्युपगमे वा तद्ध्यानस्य शाश्वतत्वात ; अन्यथा गच्छतोऽप्येतद्विघ्नप्रसङ्गात् , विशिष्टतपसोऽपि कायक्लेशकरस्य भगवत्यसिद्धः, ARE "अणुत्तरे तवे" इति सूत्रस्य शैलेश्यवस्थाभाविध्यानरूपस्याभ्यन्तरतपसः पारम्यवेदकत्वात् । नापि रासनमतिज्ञानं तत्कार्यम् , तस्य क्षयोपशमावस्थाविशिष्टकर्मपुद्गलनिमित्तकत्वात् । अन्यथा सुरविकीर्णजानुदन्नबहलकुसुमपरिमलादपि घ्राणेन्द्रियोद्भवमतिज्ञानप्रसङ्गात् । नापीर्यापथिकी क्रिया, गमनादिनापि तत्प्रसङ्गात् । नापि परोपकारहानिः, तृतीययाममुहूर्तमात्र एव भगवतां भुक्तः शेषमशेषकालमुपकारावसरात् । नापि व्याधिसमुत्पत्तिः, परिज्ञाय हितमिताहाराभ्यवहारात । नापि पुरीपादिजुगुप्सा, . स्वस्य निर्दग्धमोहबीजतयैव तदनुत्पत्तेः, अन्येषां तु तद्भावे मनुजा-ऽमरेन्द्ररमणीसहस्रसंकुलायां सभायामनंशुके भवगवत्यासीनेऽपि तत्पसङ्गात् । सातिशयत्वपरिहारस्य चोभयत्र तुल्यत्वात् । सामान्यकेवलिभिस्तु विविक्तदेशे तत्करणे दोषाभावात् । कथं चैतदाहारेऽपि निराहारभावमभ्युपगच्छताऽऽगमबाह्ये नापादयितुं शक्यम् ?, "तित्थयरा तप्पियरो" इत्यादिवचनात् । न च तव्यापपकेनापि सातवेदनीयोदीरणादिना विरोधः, तस्य प्रमादकृतत्वात् , बाह्ययोगव्यापारमात्रेण तत्प्रसङ्गे, उपदेशादिनापि तत्पसङ्गादिति न किमप्यनुपपन्नम् । १ अनुत्तरं तपः। २ तीर्थकरास्तत्पितरः । ॥३९६॥ Jain Education Inter For Private & Personel Use Only FROliww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy