SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ यदपि 'श्रूयते च प्रकृताहारमन्तरेणापि' इत्यायुक्तम् , तदप्यपर्यालोचिताभिधानम् , प्रथमतीर्थकरप्रभृतीनां निराहारकालमानोक्तिमामाण्ये तदियत्तानियमस्यापि तत एव सिद्धेः, तदधिकनिराहारतच्छरीरस्थितेः सूत्रे निषेधात् , निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादनात् “संवच्छरमुसभजिणो" इत्यादिवचनप्रामाण्यात् । इत्थं च 'निनिमित्तं सूत्रभेदकरणम्' इति परास्तम् , तच्छरीरस्य चिरतरकालस्थितेरेव सूत्रभेदकरणनिमित्तत्वात् , प्रकृताहारमन्तरेण तस्थितेरसंभवस्य प्रतिपादनात् , सामान्यमूत्रस्याप्यन्यथानुषपच्या यथासंभवन्यायेन विशेषबोधकत्वात् । भूयांसि च प्रकृताहारप्रतिपादकानि केवलिनः सूत्राण्यागम उपलभ्यन्ते, प्रतिनियतकालप्रकृताहारनिषेधकानि च यथा वर्धमानस्य भगवतो व्याख्याप्रज्ञप्त्यादौ विकटभोजित्वाद्यभिधायकानि, यथा च प्रथमतीर्थकृत एव चतुर्दशभक्तनिषेधेनाष्टापदनगे दशसहस्रकेवलिवृतस्य निर्वाणगतिप्रतिपादनादिसूत्राणीति न मूत्रभेदक्लूप्तिदोषोऽपि । यदपि 'न चातिशयदर्शनात्' इत्यायुक्तम् । तदपि न, निराहारौदारिकशरीरचिरतरस्थितेरदृष्टायाः कल्पने सयोगात्यन्तावस्थानस्याप्यतिश येन प्रसङ्गापादने दोपाभावात् , बाधकानुमानादेचोभयत्र सत्त्वात् । एतेन यदुच्यते- 'सुनिश्चितासंभवद्भाधकप्रमाणवादकवलभोजित्वं भगवतः सिध्यति' इति; तदपि प्रत्युक्तम्, एतस्य प्रामाण्येऽतन्त्रत्वाच्च, बाधकप्रमाणाभावस्यान्यतः प्रमाणाद् निश्चये तत्राप्येतन्निश्चयार्थ प्रमाणान्तरापेक्षायामनवस्थाप्रसङ्गात् ; बाधानुपलम्भात् तन्निश्वयस्य चाशक्यत्वात् , उत्पत्स्यमानबाधकेऽपि प्राग् वाधानुपलब्धिसंभवात् । न चानिश्चित लक्षणं प्रमाणं प्रप्रेयव्यवस्थानि , संवत्सरमृषभजिनः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy