________________
शासवाना समुच्चयः ॥३९॥
सटीकः। स्तबकः। ॥१०॥
बन्धनम् , ज्ञात करणानां प्रामाण्यनिश्चयापेक्षत्वात् , अमामाण्यज्ञानास्कन्दितधूमादिपरमर्शाद् वन्यनुमित्यनुत्पत्तिदर्शनात । संवादादसंभवद्भाधकप्रमाणत्वनिश्चये च संवादित्वमेव तन्त्रमस्तु । तच्च संवादित्वमतीन्द्रियार्थविषयस्यागमस्याप्तप्रणीतत्वाद् निश्चीयते, तत्पणीतत्वनिश्चयश्चागमैकवाक्यतया व्यवस्थितस्य केवलिभुक्तिप्रतिपादकसूत्रसमूहस्य सिद्ध एव । इति निर्वाधागमादपि केवलिभुक्तिसिद्धिरिति सर्वमवदातम् । तेन सिद्धमेतत्- कवलाहारित्वेऽपि घातिकर्माकलाङ्कतेन भगवताभिव्यक्तादस्माकमागमाद् धर्मा-ऽधर्मव्यवस्थेति ।
दिगम्बर ! परस्परं मतविरोधज मस्सरं निरस्य हृदि भाव्यतां यदिदमुच्यते तत्वतः। स्थिता परिणतियथाक्रममघातिनां कर्मणां न किं कवलभोजिनं गमयति त्रिलोकीगुरुम् ॥१॥ यस्यासन गुरवोऽत्र जीतविजयाः प्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयमाज्ञाश्च विद्यामदाः। प्रेम्णां यस्य च सझ पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचितस्तर्कोऽयमभ्यस्यताम् ॥ २॥ इति श्रीपण्डितश्रीपद्मविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलता
भिधानायां शाखवार्तासमुच्चयटीकायां दशमः स्तवकः ।
॥३९७॥
Jain Education Inter
For Private & Personal Use Only
Raw.jainelibrary.org