________________
शास्त्रवार्ता - समुच्चयः । ||३९३ ।।
Jain Education Interna
रतम्यात् सकृद्भोजनै-कदिन पक्ष-मास-संवत्सराद्यन्तरितभोजनादिदर्शनात् तदत्यन्तोत्कर्षादात्यन्तिकक्षुद्युक्त्याद्यपकर्षोऽपि तेषां युज्यत इति चेत् । न, अशरीरभावनया शरीरानुग्रहो-पघातनिमित्तकशरीर ममत्व मानसोपतापनिवृत्तिवदभोजनभावनया भोजनानुराग-क्षुज्जनितसंक्लेशयोरेव निवृत्तेः स्वकारणोपनीतयोः क्षु-भोजनयोः शरीरवदाकर्मक्षयं भावनाशतेनापि निवर्त यितुमशक्यत्वात् । न हि विशुद्धभावनावतां तपस्विनां क्षुदेव न लगति, अपि तु क्षुत्कृतसंक्लेशस्तैर्निरुध्यते; अन्यथा शरीरकादितत्कार्यानुपपत्तेः कचित् तदनुपलब्धेस्तथाविधमनोद्रव्याहरणोपाधिकत्वात्, पुद्गलैरेव पुद्गलोपचयात् । न च तेषां क्षुत्-पिपासाऽभावे उभयथा तत्परीषहविजयो घटते तस्मात् शतादिसच्चेऽपि तत्संक्लेशाभाववत् क्षुदादिसत्त्वेऽपि तपखिनां तत्संक्लेशाभाव इति युक्तमुत्पश्यामः । इत्थं च मानसपामदत्वादेव 'भगवतोऽसात वेदनीयाद्याः प्रकृतयो नासुखदाः' इत्युपदेशोऽज्ञाना-ऽरत्यादिजन्यदुःखविलयात्, स्वोदयजन्यदुःख मात्र हेतुत्वेनाल्पदा तर्य दातृत्वव्यपदेशवद् एतदुपपत्तिः, साविपाकप्रतिरोध एव तु निम्बरसल व दृष्टान्तानुपपत्तिरिति विभावनीयम् । न चेदृशं दुःखं कवलायोग्यमिति शङ्कनीयम्; आहारपर्याप्तिनामकर्मोदय- वेदनीयोदयज्वलदन लमतिरोघायोगात् । दग्धरज्जुस्थानीयत्वमपि भगवत्यसातावेदनीयादिप्रकृतीनां न स्वकार्यक्षमत्वाभिप्रायेण शास्त्रे प्रतिपाद्यते, किन्तु क्षिप्रक्षेपण योग्यत्वाद्यभिप्रायेण, केवलिनि सातात्यन्तोदयस्यैवागमे - ऽभिधानात् ; साता-सातयोश्चान्तर्मुहूर्त परिवर्तमानतया सातोदयवदसातोदयस्यापि संभवात् । अन्तरानन्दभावे कथं दुःखोदयः ? इति चेत् । यथा भावितात्मनां तपस्विनां परीषहादौ ।
'पापकृतीनामपूर्वकरणे रसघातादेव केवलिनां न तथाविधोऽसातोदयः, मोहसापेक्षप्रकृतीनां तद्धातेऽवश्यं रस
For Private & Personal Use Only
सटीकः । स्तवकः । ।। १० ।।
।। ३९३ ॥
jainelibrary.org