________________
तत्सहभूतत्वं वा, स्वापनेयसजातीयापनायकत्वं वा,स्वकार्यैकमूर्तिककार्यकत्वं वा, द्वेषोत्पादकत्वं वा, अन्यद्वानाद्यः, असिद्धेः। न द्वितीयः, अघातिकर्मान्तरप्रकृतीनामपि तादृशत्वात् । उक्तं हि-'अघातिन्यो हि प्रकृतयः सर्व-देशघातिनीभिः सह वेद्यमानास्तद्रसविपाकं प्रदर्शयन्ति, न तु सर्वदा स्वरसविपाकदर्शनेऽपि ता अपेक्ष्यन्ते' इति । अत एव न तृतीयोऽपि, कादाचित्कस्य तत्सहभावस्याकिश्चित्करत्वात् । अन्यथाऽतिप्रसङ्गात् , सार्वदिकस्य च तस्यासिद्धेः । नापि चतुर्थः, आत्मगुणत्वजात्याऽदृष्टकमक्षयजन्यानामष्टानामपि गुणानां साजात्यात, तदधातिनामष्टानामप्यविशेषेण घातित्वप्रसङ्गात् , ज्ञान-दर्शन-चारित्रवीर्यान्यतरत्वेन साजात्याविवक्षणे तु तस्य तज्जातीयापनायकत्वस्यासिद्धत्वात् , सुखघटितान्यतरत्वस्य च यादृच्छिकत्वात् ।
नापि पश्चमः, सर्वासामपि प्रकृतीनां सजातीयप्रकृत्यन्तरकार्याधीनप्रकर्षशालिकार्यकत्वलक्षणस्य तस्याविशेषात् , इतरस्य *च दुर्वचत्वात् । नापि षष्ठः, अष्टानामपि कर्मणामष्टसिद्धगुणपतिपन्थिदोषजनकत्वाविशेषात् । अष्टादशसु दोषेषु क्षुत्-पिपासयो
गणनं च प्रभाचन्द्रादीनामभिनिवेशमूलम् , घातिकर्मविपाकहूदनिस्यन्दभूतानामन्तरायादीनामेवाष्टादशानां दोषाणां प्रामाणिकैः परिभाषणात्; अन्यथा मनुजत्वादेरपि दोषवत्त्वप्रसक्त्या भवतामदुष्टदेवस्य दुर्लभत्वापत्तेः, अबोचाम च
"दूसइ अव्वाबाह इय जइ तुह सम्मओ तयं दोसो । मणुअत्तणं वि दोसो नासिद्धं तस्स दूसणओ ॥ १॥"
अथ प्रशस्तविपरीतभावनाप्रकर्षशालित्वं दोषत्वम् , तच्च रागादाविव क्षुदादावप्यस्ति । दृश्यते हि वीतरागभावनातारतम्येन रागादेमन्द-मन्दतमादिभाव इति तदत्यन्त्योत्कर्षात् तदन्त्यन्तापकर्षोऽपि भगवतामिति, एवमभोजनभावनाता
१ दूषयल व्या वाधामांत यदि तव सम्मतस्तद् दोषः । मनुजत्वमपि दोषो नासिद्धं तस्य दूषणतः ॥ १॥
Jain Education Intel
For Private & Personel Use Only
K
ww.jainelibrary.org