SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता सटीकः। स्तबकः। समुश्चयः ॥३९२|| RRRRRRRRRECE प्रतीच्छाया हेतुत्वावधारणा न केवलिनः प्रवृत्तिरिष्यते, तदा चेष्टात्वावच्छिन्नेऽपि विलक्षणप्रयनेन हेतुत्वात् तदभावे न केवलिनश्चेष्टाऽपि, इति जीवन्मुक्ति-परममुक्त्योरविशेषापातः । यदि च विलक्षणचेष्टात्वावच्छिन्न एव विलक्षणप्रयत्नस्य हेतुत्वात् तदभावेऽपि भगवतो नियतेः स्वभावादेव वा विलक्षणचेष्टोपपत्तिरिष्यते, तदेच्छाया अपि विलक्षणप्रवृत्तित्वावच्छिन्न | एव हेतुत्वात् तदभावेऽपि नियतेः स्वभावादेव वा भगवतः प्रवृत्तिरिति वक्तुं किमिति मृकायते भवान् ? । असमुदायवादे मिथ्यात्वं तु निलक्षणस्य भवत एव, य एवमभिनिविष्टो भाषते, न त्वस्माकं पुरुषकारं नियत्यादिसापेक्षमाश्रयताम् । यदि च चेष्टाजातीयाऽपि प्रयत्न विशेषमतिपतेत् तदा धूमजातीयोऽपि कश्चिद् धूमध्वजमतिपत्तेदिति संभावनया प्रसिद्धानुमानमपि भज्येत । तस्मादिच्छाभावेऽप्याहारपुद्गलग्रहणे भगवतो न क्षतिः। वस्तुतः शरीरतिष्ठापयिषा निरुपाधिपरदुःखप्रहाणेच्छेव रागकर्मोदयाप्रभवत्वेन राग एवं न, सामायिकवतां माध्यस्थ्यप्रभवेच्छाया एवोचितप्रवृत्तिहेतुत्वात् , 'उचितप्रवृत्तिप्रधान निरभिष्वङ्ग चित्तं सामायिकम्' इति वचनादिति दिग्। यच्चोक्तम्- 'न च भगवति क्लेशो नाम' इत्यादि । तदयुक्तम् , अनन्तसुखस्य वेदनीयक्षयप्रभवस्यायोगिचरमसमयं तत्रासिद्धेस्तेन तदविरोधात् । न च घातिवद् वेदनीयमिति तद्विपाकस्य तत्र मोहाभावप्रतिबद्धत्वात् तत्कर्मण आत्यन्तिकफ|लायोगादेव भगवति क्षायिकसुखोपपत्तेस्तदनुपमृद्य न क्लेशोत्थानमिति वाच्यम् । तत्कर्मक्षयजन्यभावे तत्कर्मसत्ताया एव प्रतिबन्धकत्वात् । अन्यथाऽतिप्रसङ्गात् , उदयप्रभवेऽपि सुखे गिव तदापि क्षायिकभावमपेक्ष्यानन्तत्वाविरोधात् । घाति- तुल्यत्वं च वेदनीयस्य चिन्त्यम् । तथाहि-किं तत् ?-घातिरसवत्त्वं वा, तद्रसविपाकप्रदर्शकत्वं वा, खकार्यजनने कचित् ३९२॥ For Private Personal Use Only Jain Education Inter a www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy