________________
Jain Education Inte
हेतुत्वात् ; तथा च प्रवचनसारकृत -
"ठाण- णिसेज्ज-विहारा धम्मुवदेसो अणियदिणा तेसिं । अरहंताणं काले मायाचारी व्व इत्थीणं ॥ १ ॥” पुण्यविपाकस्तु तेषां सन्नपि बाह्यमवृत्तिं मत्यकिञ्चित्करः, औदयिक्या अपि तत्प्रयुक्तक्रियायाः कार्या कार्यभूतयो न्ध-मोक्षयोरकारण कारणत्वाभ्यां क्षायिकरूपतया स्वीकारात् ; तदाह
"पुणफला अरहंता तेसिं किरिया पुणो हि ओदइगी । मोहादीहिं विरहिदा तम्हा सा खाइगि ति मदा ||१||" इति । सोऽविमृश्यवादी, भगवतोऽपि नामकर्मोदयेन योगप्रवृत्त्यविरोधात, क्षायिकत्वेनोपचरितस्याप्यौदायिकभावस्य स्वकार्याप्रतिरोधात्ः केवलज्ञानादेस्तत्कार्यप्रतिबन्धकत्वे मोहादेस्तत्सहकारित्वे वा मानाभावात्; अन्यथा जिननाम्रा-ऽऽयुष्ककर्मादिविपाकनिमित्तक्रियाया अपि तत्रानुपपत्तेः । न च परपरिणमनलक्षणक्रियायामज्ञानस्य हेतुत्वाज्ज्ञानिनो भगवतस्तदनुपपत्तिः तदुक्तम्
" गेहदि व ण मुंचदि ण परं परिणमदि केवली भगवं । पच्छदि समंतदो सो जाणदि सव्वं णिरवसेसं ||१|| " इति वाच्यम्; सत्यपि ज्ञान आत्मप्रदेशैः कर्मादानवद् योगप्रदेश व हिरर्थादानस्याप्युपपत्तेः । यदि च प्रयत्नसामान्यं
१ स्थान निषद्या विहारा धर्मोपदेशश्च नियत्या तेषाम् । अर्हतां काले मायाचार इव स्त्रीणाम् ॥ १ ॥
२ पुण्यफला अर्हन्तस्तेषां क्रिया पुनादयिकी । मोहादिभिर्विरहिता तस्मात् सा क्षायिकांति मता ॥ १ ॥
३ गृह्णाति नैव न मुञ्चति न परं परिणमते केवली भगवान् प्रेक्षते समन्ततः सो जानाति सर्वं निरवशेषम् ॥ १॥
For Private & Personal Use Only
www.jainelibrary.org