________________
शास्त्रवातासमुच्चयः । ॥३९१॥
Jain Education Inter
चातिशयदर्शनाद् निरवशेषदोषावर णहानेर त्यन्तशुद्धात्मस्वभावप्रतिपत्तिवत् प्रकृताहारविक लौदा रिकशरीरस्थितिरप्यात्यन्तिकी संभवन्मुक्तेर्भगवतः सिध्येत् इति "असरीरा जीरघणा" इत्याद्यागमविरोधः प्रसज्येतेति शङ्कनीयम्, संयोगस्यात्यन्तिकस्थितेरसंभवात्, असंख्येयकाला दूर्ध्वं सर्वस्याः पुद्गल परिणतेरन्यथाभवनात्, औदारिकस्य निराहारस्यापि चिरतरकालस्थायिन उत्तरकालमशेषकर्मक्षयाद् विनिवृत्युपपत्तेरिति चेत् ।
अत्र ब्रूमः - घातिकर्मक्षयापेक्षयाऽस्मदादिविजातीयत्वेन भगवति चतुर्ज्ञानित्वाद्यनुपपत्तावपि भुक्तिनिमित्तकर्मक्षयापेक्षया विजातीयत्वासिद्धेर्न तत्र भुक्त्यनुपपत्तिः । न च भुक्तिसंपादकं कर्मेच्छां विना तदनिष्पादकम् अनिच्छतामपि कर्मविपाककृत फलोपनिपातदर्शनात् । न च भुक्तिमवृत्ते रागनिमित्तकत्वाद् वीतरागे तदभावः, शरीरतिष्ठापयिषयोपवेशनादिप्रवृत्तेरिव भुक्तिमवृत्तेरपि तत्रातथात्वात् अनन्तवीर्यत्वं च तत्र विघ्नपरिपन्थि, न परमाहारमन्तरेणैव शरीरस्थितिसंपादकम्, अन्यथा च्छद्मस्थावस्थायां भगवत्यपरिमितवलश्रवणात् कर्मक्षयार्थमनशनादितपस्युद्यमवतोऽस्य प्राणवृत्तिप्रत्ययं तस्यामवस्थायामशनाद्यभ्यवहरणमसङ्गतं स्यात् । न च तदा क्षायोपशमिकं तस्य वीर्यम्, केवल्यवस्थायां तु क्षायिकं तत् इति विशिष्टाहार मन्तरेणापि शरीरस्थितिनिबन्धनमिति वाच्यम् : तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनो पवेशनादिवत् प्रकृताहारस्याप्यविरोधात् । न चोपवेशनादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम्, समुद्वातावस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेः, तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्यासंभवात् तद्ग्रहणस्य च यथोक्तमयोजनमन्तरेणाभावात् । यस्त्वागमबाह्य उपवेशनादिकमपि केवलिनो घनगर्जन-वर्षणादिवद् नियतिकृतकाल - देशनिययमेव स्वीकुरुते न तु प्रायोगिकम्, प्रवृत्ताविच्छाया
For Private & Personal Use Only
epssscc.CSPX
सटीकः ।
स्तबकः ।
॥ १० ॥
।। ३९१ ।।
ww.jainelibrary.org