________________
M
BREEDERABASIRATRAINER
हि भगवति क्लेशो नाम, अनन्तसुखविरोधात् : 'पयोभृते घटे निम्बरसलव इव बहुपुण्यप्राग्भारभृते भगवत्यसातवेदनीयादिप्रकृतयो नासुखदाः' इत्युपदेशात् , दग्धरज्जुस्थानीयत्वाच्च तासाम् । न चातीन्द्रियस्य भगवतो देहगतं क्षुदादिदुःखं तदुपशमसुखं वा संभवति, आहारसंज्ञा-रुचिरूपयोर्मानस-रासनज्ञानयोस्तत्र हेतुत्वात् , विषयसंपर्कमात्रस्य तज्ज्ञानमात्रस्य चाव्यभिचारित्वात् , तदिदमुक्तम्
"सोक्खं वा पुण दुक्खं केवलनाणिस्स पत्थि देहगदं । जम्हा अदिदियत्तं जादं तम्हा हुन तं यं ॥१॥"
औदारिकव्यपदेशस्तु भगवच्छरीरस्योदारत्वात् , न तु भुक्तः। यत्वेकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां सूत्र उपदेशात् केवलिनां कवलाहारिवं केवित् प्रतिपन्नाः, तत्सूत्रार्थापरिज्ञानविजृम्भितम् । तत्र ोकेन्द्रियादिभिः सह भगवतो निर्देशात् , निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणस्याहारत्वेन विवक्षितत्वात् , अन्यथा समुद्धातावस्थायां क्षणत्रयमात्रमपहाय तेनाहारेण भगवतो निरन्तराहारत्वप्रसङ्गात् । तत्र यथासंभवमाहारव्यवस्थितेः सह निर्देशेऽपि कवलाहार एवं केवलिनो व्यवस्थापयितुं युक्तः, अन्यथा तच्छरीरस्थितरभावप्रसङ्गादिति युक्तम् , अस्मदादौ प्रकृताहारमन्तरेणौदारिकशरीरस्थितेः प्रभूतकालमभावदर्शनात केवलिन्यपि तथाकल्पने तत्र सर्वज्ञताया अप्यनवसायप्रसङ्गात , दृष्टव्यतिक्रमकल्पनाऽयोगात् । श्रूयते च प्रकृताहारमन्तरेणाप्यौदारिकशरीरस्थितिश्चिरतरकाला प्रथमतीर्थकृत्मभृतीनाम् । न च तदियत्तानियमप्रतिपादक | प्रमाणमस्ति, इति निनिमित्तं मूत्रभेदकरणम् । यथान्यासं सूत्रार्थाश्रयण एव हि निरन्तराहारवचनमप्यनुल्लङ्कितं भवेत् । न
१ सौख्यं वा पुनदुःखं केवलज्ञानस्य नास्ति देहगतम् । यस्मादतीन्द्रियत्वं जातं तस्मात् खलु न तज्ज्ञेयम् ॥1॥
edalaa
For Private Personal Use Only
www.jainelorary.org
Jan Eduen interior