________________
शाखचातासमुच्चयः। ॥३९॥
सटीकः। स्तबकः। ॥१०॥
सत्तकैनिशितैः शरैरिव वरैर्मीमांसके दुर्जये लुण्टाके सुपथस्य मुष्णति धनं सर्वज्ञमस्तौजसि । तस्यैवावगमं च लुम्पति परे बाद हते सौगते साम्राज्यं जिनशासनस्य जयति न्यायश्रिया सुन्दरम् ॥१॥ विश्वस्यापि दृशोर्मदं वितनुते यः प्रातिहार्यश्रिया धर्मास्था यदुपज्ञमज्ञमनसामयाप्यवद्यापहा।
दुायोत्थकुवासनां नयशतैर्लुम्पन्ति यस्यागमाः सर्वज्ञो गतिरामहोदयपदं सोऽयं कृतार्थोऽस्तु नः ॥२॥ ६४॥ . ननु युक्तमुक्तम्- 'सर्वज्ञेनाभिव्यक्तादागमाद् धर्मा-ऽधर्मव्यवस्था' इति । कवलाहारित्वे त्वस्मदादिवत् सार्वज्यमेव नो. पपद्यते, इति कथं सिताम्बराणां सर्वज्ञमूला व्यवस्था ? । न च च्छद्मस्थे भुजिक्रियादर्शनात् केवलिनि तद्विजातीये तत्कल्पना युक्ता; अन्यथा चतुर्जानित्वा-उकेवलित्वसंसारित्वादयोऽपि तत्र स्युः। न च देहित्वमानं तस्य भुक्तिसंपादकम् , मैथुनसंपादककर्मसत्वेऽपि सुषुप्त्यादौ वृषस्याभावेन मैथुनविरहवन् कैवल्ये इतमोहतया बुभुक्षाऽभावेन भुक्त्यनुपपत्तेः । एवं च तथाभूनशक्त्या-ऽऽयुष्ककर्मणोः सत्वेऽपि न क्षतिः। न च मोहाभावात् शरीरानुरागनिमित्तबुभुक्षाऽभावेऽपि शरीरं स्थापयितुमिच्छरश्नातीति वाच्यम्; अनन्तवीर्यस्य भगवतः शरीरस्थितिमिच्छोः प्रकृताहारमन्तेरणापि तत्स्थापनसामर्थ्याविरोधात् । न च शरीरतिष्ठापयिषापि बुभुक्षादिवदिच्छारूपत्वाद् भगवतोऽस्ति । न वा तीर्थमवर्तनवदिच्छाऽभावेऽपि स्वभावादेव भगवतो भुक्तिरिति कल्पयितुं युक्तम् ; प्रकृताहारवैकल्य एव नियतकालभाविशरीरस्थितिस्वभावकल्पनायां दोषाभावात् , भावनाविशेषोत्पनसकलक्लेशोपरतव्यापारव्यवहारलक्षणतीर्थप्रवर्तनस्वभाववत् क्लेशोपशमनार्थ प्रकृताहारस्वभावकल्पनाया अन्याय्यत्वात् । न
॥३९
॥
For Private 8 Personal Use Only
Jain Education International
www.jainelibrary.org