SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ _ 'ज्ञः, अज्ञो वाऽस्याधिकारी स्यात् ? उभयथापि सिद्ध्य-ऽसिद्धिभ्यां चैयर्थ्यम्' इति कुवादिकुतर्कनिराकरणार्थमाइB अधिकार्यपि चास्येह स्वयमशे हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा६३॥ अधिकार्यपि च, अस्य- आगमस्य, इह-- जगति, 'सः' इति गम्यते, यो हि पुमान् स्वयम् - आगमश्रवणनैरपेक्ष्येण, अज्ञः- विषयापरिज्ञाता; कथितज्ञः पुनः, न तु कथितमपि यो न जानात्येव, अत एवाह- धीमान्- बुद्ध्यावरणक्षयोपशमवान् । अतोऽन्यथा- उक्तविपर्यये सर्वथा ज्ञन्वेऽज्ञत्वे वा, तद्वैयर्थ्यम्- आगमवैयर्थ्यम् , तत्कथाप्रीत्यादिलिङ्गेनावेस्यैवाधिकारिता पुनरध्यापनादौ न तद्वैयर्थ्यम् । अनधिकारिप्रयोगे हि लोकसंज्ञाप्रवेशात् प्रयोक्तच प्रयोज्याविधिसमासेवनजनितं महदकल्याणमासादयेत् । इति लिङ्गैरधिकारितामवेत्याध्यापने नागमा-ऽऽगमज्ञादिवैयर्थ्यमिति निपुण विभावनीयम् ॥ ६३॥ ___ अन्यचित्त चैतसिकाद्यगतेरसर्वार्थविषयोऽयं स्यादित्याशङ्कापोहायाहपरचित्तादिधर्माणांगत्युपायाभिधानतः। सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः॥६४॥ परचित्तादिधर्माणाम्- परचित्तालोचन-समुद्रोदकपलादिमानरूपाणाम् , गत्युपायाभिधानतः- परिच्छेदोपायतपोभावनायभिधानात् , सर्वार्थविषयोऽप्येषः-- प्रक्रान्त आगमः फलनः स्वरूपतोऽपि सर्वाभिलाप्यभावविषयः, इति-- एवम, तद्भावसंस्थितिः-- सर्वज्ञव्यक्तस्यागमत्य धर्मा-ऽधर्मव्यवस्थापकत्वसिद्धिः। HainEducation For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy