SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ _ 'ज्ञः, अज्ञो वाऽस्याधिकारी स्यात् ? उभयथापि सिद्ध्य-ऽसिद्धिभ्यां चैयर्थ्यम्' इति कुवादिकुतर्कनिराकरणार्थमाइB अधिकार्यपि चास्येह स्वयमशे हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा६३॥ अधिकार्यपि च, अस्य- आगमस्य, इह-- जगति, 'सः' इति गम्यते, यो हि पुमान् स्वयम् - आगमश्रवणनैरपेक्ष्येण, अज्ञः- विषयापरिज्ञाता; कथितज्ञः पुनः, न तु कथितमपि यो न जानात्येव, अत एवाह- धीमान्- बुद्ध्यावरणक्षयोपशमवान् । अतोऽन्यथा- उक्तविपर्यये सर्वथा ज्ञन्वेऽज्ञत्वे वा, तद्वैयर्थ्यम्- आगमवैयर्थ्यम् , तत्कथाप्रीत्यादिलिङ्गेनावेस्यैवाधिकारिता पुनरध्यापनादौ न तद्वैयर्थ्यम् । अनधिकारिप्रयोगे हि लोकसंज्ञाप्रवेशात् प्रयोक्तच प्रयोज्याविधिसमासेवनजनितं महदकल्याणमासादयेत् । इति लिङ्गैरधिकारितामवेत्याध्यापने नागमा-ऽऽगमज्ञादिवैयर्थ्यमिति निपुण विभावनीयम् ॥ ६३॥ ___ अन्यचित्त चैतसिकाद्यगतेरसर्वार्थविषयोऽयं स्यादित्याशङ्कापोहायाहपरचित्तादिधर्माणांगत्युपायाभिधानतः। सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः॥६४॥ परचित्तादिधर्माणाम्- परचित्तालोचन-समुद्रोदकपलादिमानरूपाणाम् , गत्युपायाभिधानतः- परिच्छेदोपायतपोभावनायभिधानात् , सर्वार्थविषयोऽप्येषः-- प्रक्रान्त आगमः फलनः स्वरूपतोऽपि सर्वाभिलाप्यभावविषयः, इति-- एवम, तद्भावसंस्थितिः-- सर्वज्ञव्यक्तस्यागमत्य धर्मा-ऽधर्मव्यवस्थापकत्वसिद्धिः। HainEducation For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy