________________
शास्त्रवार्ता
| सटीकः। स्तवकः। ॥१०॥
यत:- यस्मात् , एक-किश्चिदेव वचनम् , न सत्यार्थ घुणाक्षरन्यायेन, किन्तु सर्वमेव- यथाश्रुतं- यथानुयोजित समुच्चयः ॥३८९॥
वचनम् , यत्रागमे सत्यार्थम् , सः- आगमः, पण्डितैर्जनैः- परीक्षकेर्लोकः, इष्यते- आमुष्मिकफलसिद्ध्यर्थमाद्रियते । तथा च " भूयः संवाददर्शनाद् न घुणाक्षरीयत्वाशङ्का, विषय शुद्धिज्ञानाच्च न कचिद् विसंवादाशङ्केति भावः ॥ ६॥
विषयशुद्धिमेव व्यनक्तिआत्मा नामी पृथक्कर्म तत्संयोगाद्भवोऽन्यथा। मुक्तिहिंसादयो मुख्यास्तन्निवृत्तिः ससाधना॥
आत्मा, नामी- नारकादिरूपेण परिणामवान् , तथा, पृथक्-पौद्गलिकत्वेनात्मनो भिन्नम् , कर्म, तत्संयोगात्कर्मसंबन्धात् , भव:-- संसारः; अन्यथा- वस्तुसत्कर्मवियोगात् , मुक्तिः, हिंसादयः कर्मसंयोगहेतवः, मुख्या:-- निरुपचरिताः; तथा, तन्नित्तिः- हिंसादिनिवृत्तिः, ससाधना- सह साधनरुपदेश क्षयोपशमादिभिर्निमित्तैर्वर्तमाना मुख्या ॥ ६१ ॥
तथाअतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः। यत्रेदं युज्यते सर्व योगव्यक्तः स आगमः॥६॥
अतीन्द्रियार्थानां चन्द्रोपरागनिमित्तादीनां संवादः, तथा, विशुद्धः- संभवस्वरूपफलशुद्ध्या निर्मलः, भावनाविधिः* अनित्यत्वादिभावनामार्गः। यत्रेदम्- अनन्तरोदितम् , सर्व युज्यते- विचार्यमाणमुपपद्यते, योगिव्यक्तः- सर्वज्ञप्रकाशितः, Ka सः- आगमः, नान्यः, परीक्षाक्षमवचनस्यैव सम्यगागमलक्षणत्वात् ।। ६२ ।।
३८९॥
अला
Jain Education inte
For Private & Personal Use Only
iww.jainelibrary.org