________________
Jain Education In
अस्त्वेवमविसंवादकत्वाभिमानात् प्रातिभं प्रवृत्त्याद्युपयोगि, वस्तुस्थित्या तु तद् विसंवाद्येवेत्याशङ्कयाह
वस्तुस्थित्यापि तत्तादृग् न विसंवादकं भवेत् । यथोत्तरं तथा दृष्टेरिति चैतन्न सांप्रतम्॥५८॥ वस्तुस्थित्यापि परमार्थेनापि तादृग्- मार्गानुसारि, तत्- प्रातिभम्, न विसंवादकम् - अर्थक्रियाक्षमम् भवेत् । कुतः ? इत्याह- यथोत्तरं - क्रियामदृश्यनन्तरम्, (तथा - ) सुवैद्यप्रातिभवदर्थक्रियोपधानेना विसंवादकतया दृष्टेः । इति चएवं च सति एतद् वक्ष्यमाणम्, न सांप्रतम् न भजमानम् ॥ ५८ ॥
किं तत् ? इत्याह
सिद्धयेत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थ पुरुषे बहुभाषिणि । ५९ ।
सिद्ध्येत् प्रमाणमागमाख्यम्, यदि, एवम् - एकवाक्यार्थसंवादित्वेन; अर्थहानमाणं किम् । न ह्येवं सति किञ्चिदप्रमाणं नाम पौरुषेयं वचनं युज्यते । कुतः ? इत्याह- न ह्येकं किमपि नास्ति सत्यार्थं वचनम्, किन्तु किञ्चिद् भवत्यपि, पुरुषे बहुभाषिणि भूयां जल्पनशीले। तथा च सर्वेषां वचनं प्रमाणमापनमिति महाननर्थः ॥ ५९ ॥
यथैतदसांप्रतं तथाभिधातुमाह
यत एकं न सत्यार्थे किन्तु सर्वे यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः ॥ ६० ॥
For Private & Personal Use Only
www.jainelibrary.org