SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ ॥ १०॥ शास्त्रवार्ता- एवं तत्रापि तद्भावे नविरोधोऽस्ति कश्चन।तद्वयक्तार्थाविरोधादी ज्ञानभावाच्च सांप्रतम्॥५६॥ सटीकः । समुच्चयः। स्तवकः। ॥३८८॥ ___ एवं- सुवैद्यादीनां व्याध्यादिपरिणाम इव, तत्रापि-गुणवत्पुरुषेऽपि, तद्भावे--विशिष्टचेष्टोपलब्ध्या प्रातिभातिशयालो. चनभावे, न विरोधोऽस्ति कश्चन-न बाधकमस्ति किश्चित् , असाक्षाद्दर्शिनोऽपि संभवत्येतदित्यर्थः । तथा, तब्यक्तार्थावि रोधादौ- तदुपदिष्टागमार्थाव्याघातादौ विषये, आदिना संवादादिग्रहः, ज्ञानभावात्- ज्ञानोत्पादाच्च, सांप्रतम्-- इदानीम् , चकारेण तत्कालोऽपि समुच्चीयते, 'न विरोधोऽस्ति कश्चन' इत्यनुषज्यते । ननु किमेतत् मातिभम् , चेष्टादिलिङ्गज्ञानाल्लिङ्गज्ञानमेवैतत् । न, व्याप्त्यादिपतिसन्धानानपेक्षत्वात् । अस्तु ती नुमितविषयं स्मरणं प्रत्यभिज्ञानं वा । न, विशदत्वात् , तद्वदनपेक्षत्वाचेति द्रष्टव्यम् ।। ५६ ॥ ननु यदि नाम दृष्टे संवादः, तथाप्यदृष्टेऽर्थे तथाविधप्रातिभस्याप्रामाण्याशङ्का न निवर्तत एवेत्यायोजकं तदित्याशङ्कापोहायाह सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः॥५॥ ___ सर्वत्र दृष्टेऽर्थे संवादात्- अर्थक्रियाक्षमत्वदर्शनात् , अदृष्टे धर्मादौ, नोपजायते ज्ञातुः प्रमातुः, विसंवादाशङ्का- 'किमित्थमन्यथा वा' इति । कुतः ? इत्याह- तस्य व्यञ्जकस्य व्यक्तस्य वा माध्यस्थ्याद्युपायाभिधानादिना विषयतोऽविसंवादिजा- ॥३८८॥ तीयत्वेन स्वरूपतश्च वैशिष्ट्योपलब्धितः- प्रामाण्यव्याप्यधर्मवत्तोपलम्भात् ।। ५७ ॥ Jain Education Toga For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy