________________
एवंभूतोऽपीदानी न दृश्यते, अती नास्त्यवेत्याशङ्कानिवृत्यर्थमाहन चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता। संभवो न्याययुक्तस्तु पूर्वमेवनिदर्शितः॥५४॥
न चास्य- अशेषसंशयनिर्णयकर्तुः, अदर्शनेऽप्यद्य-सांपतम् , साम्राज्यस्येव- चक्रवादिराज्यस्येव, नास्तिताअभाव एव, किन्वस्तितैव । न हीदानी सामाज्यमपि (न?) दृश्यते, नच कदापि नास्तीति । स्यादेतत् संभवति तदिति न तदभावः, इत्यत्राह- संभवस्तु- 'अस्य' इति वर्तते, न्याययुक्तः- अनुकूलतकोपस्कृतः, पूर्वमेव निदर्शितः'दोषाणां हासदृष्टया' इत्यादिनेति समानमेतदिति ॥ ५४ ॥ ___ एवमनुमानातिशयज्ञानमुक्त्वा भूयोऽनुभवाहितपटुक्षयोपशमवला व्याप्त्यादिप्रतिसंधाननिरपेक्षेण प्रकृष्टमतिज्ञानेनापि तदाहप्रतिभालोचनं तावदिदानीमप्यतीन्द्रिये। सवैद्यसंयतादीनामविसंवादिदश्यते॥५५॥
प्रातिभालोचनम्- ध्यादिपरिणामविषयमनपेक्षितव्याप्त्यादिप्रतिसंधानं मानसज्ञानम् , तावच्छन्दः प्रसिद्ध्यर्थः, इदानीमपि-- अस्मिन् कालेऽपि, अतीन्द्रिये- अनागतव्याध्यादिपरिणामे, सुवैद्य-संयतादीना- निपुणभिषग्वर-परिणतयोगमुनिप्रभृतीनाम् , अविसंवादि- अर्थक्रियाक्षमम् , दृश्यते ॥ ५५ ॥ प्रकृते योजनामाह
१ प्रकृतस्तबके कारिका ५२ ॥
www.jainelibrary.org
For Private
Personal Use Only
Jain Educations