SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चय: ॥३८७|| सटीका। स्तवकः। मप्रकृष्टतत्पूर्वकः, यथा शीतस्पर्शात्यन्तक्षयः परमप्रकृष्टोष्णस्पर्शपूर्वकः' इत्यन्वय्यनुमानमुपयुज्यते, तत्र च पक्षज्ञानार्थ 'रागादयः कचिदत्यन्तं क्षीयन्ते, क्षीयमाणत्वात्' इत्युपयुज्यते ॥ ५१ ॥ एतदेवाह--. दोषाणां हासदृष्टयेह तत्सर्वक्षयसंभवात्। तत्सिद्धौ ज्ञायते प्राओस्तस्यातिशय इत्यपि॥५२॥ दोषाणां- रागादर्दानाम् , हासदृष्टया- प्रतिपक्षभावनाबलेन देशतो नाशदर्शनेन तेन जन्मादीनामपि हासदर्शनात कदाचिदत्यन्तहाससंभवाद् महापलयाभ्युपगमः परेषां निरस्यते, तत्प्रतिपक्षाभावेन तदत्यन्तहासायोगात् , धर्महासेन तन्मूलशुभ जन्मादिहासेऽपि षष्ठारकादावधर्ममूलजन्मादिपरिग्रहादिति द्रष्टव्यम् इह- जगति, तत्सर्वक्षयसंभवात् तेषां रागादीनां प्रतिपक्षोत्कर्षेण सर्वक्षयोपपत्तेः तत्सिद्धौ-कचिदतिशयसिद्धौ, ज्ञायते प्राज्ञैः, तस्य अधिकृतस्य, अतिशय इत्यपि ॥ ५२ ॥ कथम् ? इत्याहहृद्गताशेषसंशीतिनिर्णयादिप्रभावतः । तदात्वे, वर्तमाने तु तद्व्यक्तार्थाविरोधतः॥५३॥ हृद्तानामशेषसंशीतीनां निर्णयो निराकरणम्, आदिना दृष्टे-शाविरुद्धोक्तिसामर्थ्यग्रहः, तयोः प्रभावोऽतिशयव्या. यत्वं ततः, तदात्वे- सर्वज्ञसद्भावकाले द्वयादप्यतः; वर्तमाने तु- सांपनं पुनः, तद्व्यक्तार्थाविरोधतः- तेनातिशयवता व्यक्त उपदिष्टो य आगमस्तदर्थपौर्वापर्याव्याघातेन केवलेनैवेति ॥ ५३ ॥ ॥३८७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy