SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ ramete अत्र समाधानवार्तान्तरमाहअत्रापि त्रुवते वृद्धाः सिद्धमव्यभिचार्यपि।लोके गुणादिविज्ञानं सामान्येन महात्मनाम्॥५०॥ ___ अत्रापि- सौगतोदितविचारेऽपि, ब्रुवते- समादधति, वृद्धाः- सिद्धान्तपारीणाः । किम् ? इत्याह-सिद्धं- प्रतिष्ठितम् , अव्यभिचार्यपि- नियमवदपि, लोके- जगति, गुणादिविज्ञानं- गुण-दोषविज्ञानम् , सामान्येन- सामान्यतोदृष्टानुमानरूपप्रज्ञया, न तु साक्षात्कारेण, महात्मना-प्राज्ञानाम् ॥ ५० ॥ __अत्रैव हेतुं दर्शयतितन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ?॥५१॥ तन्नीतिप्रतिपत्त्यादेः-दिग्नागाचार्यन्यायानुसरणादेः 'यद् वृद्धन्यायानुसारि विज्ञानं तद् गुणपूर्वकम्' इति व्याप्तेः, अन्यथा तत्-नीतिप्रतिपत्यादि न युक्तिमत, अप्रेक्षापूर्वकारिनीतित्वात् । सामान्यसिद्धौ विशेषज्ञानपकारमप्याह-विशेषज्ञानमपि-अधिकृते । पुंसि विशिष्टगुणज्ञानमपि, एवम्-उक्तमज्ञादिशा, तद्वत्-सामान्यगुणज्ञानवत् , अभ्यासतो न किम्-भवत्येव साध्यतल्लिङ्गाद्यनुमानपरम्परारूपादभ्यासात् प्रकृतपक्षकं विशिष्टगुणसाध्यकं व्यतिरेक्यनुमानमिति भावः, तत्र 'अयं परमप्रकटगुणवान् , अशेषसंशयापनायकत्वात् , दृष्टेष्टाविरुद्धवचनत्वाद् वा, यो नैवं स नैवं यथा रथ्यापुरुषः' इति व्यतिरेकिणि साध्यप्रसिद्धये, 'रागादीनामत्यन्तक्षयः परमप्रकृष्टगुणपूर्वकः, तत्तारतम्यानुविधाय्यत्यन्तापकर्षवात , यो यत्तारतम्यानुविधाय्यत्यन्तापकर्षः स पर मार Jain Education ona For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy