SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातों- कदाचनेयं युज्यते । समुच्चयः । ॥३८६ ॥ Jain Education Into धर्मा-धर्मव्यवस्थेयं कृतविश्वपरिग्रहा । यतः प्रवर्तते शश्वत् तं सर्वज्ञमुपास्महे ॥ १ ॥ ४७ ॥ वार्तान्तिरमाह अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं सोऽतिशयो यदि ॥ अत्रापि - अनन्तरोदितत्रार्तायामपि, प्राज्ञः पण्डितः, इति - अस्माद्धेतोः, अन्यः - सौगतः इत्थं वक्ष्यमाणनीत्या, आह 'सुभाषितम्' इत्युपहसति । इष्टोऽयमर्थ:- 'सर्वज्ञेन ह्यभिव्यक्तात्' इत्यादिनोक्तः, शक्येत ज्ञातुम्, सः अर्थः अयं 'सर्वज्ञः, अयं च तदभिव्यक्तार्थ आगमः, इत्येवं विभक्तस्वभावः यद्यतिशयो- गुणविशेषः स्यात् ॥ ४८ ॥ एतदेवाह - अयमेवं न चेत्यन्यदोषो निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥४९॥ अयमेवं- सर्वज्ञः, न चायं - न सर्वज्ञथ, इति एवम् अन्यदोषः - संतानान्तरवर्तिदोषः, निर्दोषतापि वा - संतानान्तरवर्तिदोषाभावोऽपि वा प्रमाणानां परचेतसाम्, दुर्लभत्वात्- अप्रत्यक्षत्वात्, दुर्बोधा - दुर्झाना, इत्यपरे सौगताः, विदुः-- जानन्ति ॥ ४९ ॥ For Private & Personal Use Only |सटीकः । स्तबकः । ॥ १० ॥ ||३८६॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy