SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ प्रथमं गृहीताया इव चन्द्र-तारादिस्वल्पताया उत्तरप्रवृत्तागमादिमूलतन्महत्वज्ञानेऽनुभावकत्व आकाङ्क्षादिवत्साध्यतोपरागस्याप्रामाणिकगौरवेणाप्रयोजकत्वाच्च अन्यथा 'परिणतिसुरसमाम्रफलम्' इत्यादिवाक्यश्रवणानन्तरं सुरसाम्रफलानुभवाभावेन प्रत्यनुपपत्तिप्रसङ्गात् । न च तत्र क्रियापदमध्याहृत्यैव प्रवृत्तिरिति वाच्यम् ; अध्याहारे मानाभावात् । किश्च, 'पुत्रो जातस्ते' इति श्रवणे हर्षप्रयुक्तमुखप्रसाददर्शनाद् हर्षस्य ज्ञानसाध्यत्वात् पुत्रजन्मज्ञान उपचितस्य वाक्यस्यैव हेतुत्वौचित्यात् । अन्यथा 'गामानय' इत्यादावपि प्रमाणान्तरजन्यज्ञानेनान्यथासिद्धिप्रसङ्गात् कथं न सिद्धार्थस्यानुभावकत्वम् । यदि चाप्रवृत्तिपराद् वाक्यादननुभव एव, तदा तत्र मृकतैव स्यात् , व्यवहाराभावात् । असंसर्गग्रहादेव तत्र व्यवहारोपपादने चान्यत्रापि तत एव तदुपपत्तिः किं न स्यात् । इति प्रवृत्तिवद् व्यवहारस्याप्यनुभवप्रमाणतया सिद्धं सिद्धार्थस्यानु| भावकतया ॥ ४६॥ उपसंहरबाहसर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा। धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित्॥४७॥ सर्वज्ञेन हि- सर्वज्ञेनैव, अभिव्यक्तातू- प्रकाशितात् , सर्वार्थात्- सर्व विषयात् , आगमात् , परा- मुमुक्षु-सत्-साधुपरिग्रहादुत्कृष्टा, इयं- प्रत्यक्षलक्ष्यमाणा, धर्मा-ऽधर्मव्यवस्था युज्यते, नान्यतः-नान्यस्मादपौरुषेयत्वाभिमतादागमात् , कचित् १ क. 'गस्य प्रा'। २ क. 'वेण प्र'। JEE Jan Education Interational For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy