________________
सटीकः। स्तवकः ।
शास्त्रवार्ता- प्रतीतम् , तथा च व्यभिचार इति भावः । असिद्धतामप्याह- न चापि तत्- भवदभिमतं वेदमन्त्रसामर्थ्यम्- अव्यभिचारि, समुच्चयः। सुप्रयुक्तमन्त्रेऽपि विवाहादिकर्मणि वैधव्यादिदर्शनात् । तदेवमपौरुषयत्वमपि नान्यतः सिद्ध्यतीति व्यवस्थितम् ॥ ४५ ॥ ||३८५॥
अन्यदप्याहवेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत्। स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते।४५॥
वेदेऽपि पठ्यते ह्येषः- सर्वज्ञः, महात्मा- शुद्धसत्त्वः, तत्र तत्र- “स सर्वविद् यस्यैष महिमा" इत्यादौ, यद्यस्मात् , स च- वेदः, मानं- प्रमाणं भवताम् , अतोऽपि हेतोः, अस्य- सर्वज्ञस्य, असत्त्वं वक्तुं न युज्यते ॥ ४५ ॥
न चेहार्थवादादिकल्पनया परिहार इत्याहन चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् । असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्येव सर्वथा ॥
न चाप्यतीन्द्रियार्थत्वात- साक्षात तदर्थादर्शनात् , ज्याय:- शोभनम् , विषयकल्पनम्- अर्थवादादिकल्पनम् , असाक्षाद्दर्शिनः- छद्मस्थस्य, तत्र- वेदे । निदर्शनमाह- सर्वथाऽन्धस्य- जात्यन्धस्य, रूप इव- नीलादौ विषय इव; यथा हि जात्यन्धस्य न सम्यग् नीलादिग्रहण श्लाघा युज्यते, तथा च्छमस्थस्यापि सर्वविश्व श्लाघेति । न च सिद्धार्थस्य स्वार्थेप्रामाण्यमपि वक्तुं युक्तम् , प्रथमं गृहीताया अपि शब्दत्वावच्छेदेन कार्यत्वविशिष्टशक्तरुत्तरकालं बाधकदशनन त्यागात ,
॥३८५।।
HOEN in Educatan Internanna
For Private & Personel Use Only
www.jainelibrary.org