________________
समये तत्कर्तारमनुस्मृत्यैव प्रवर्तन्ते' इति । न हि पाणिन्यादिप्रणीतव्याकरणपतिपादितशाब्दव्यवहारानुष्ठानसमये तदनुष्ठातारोऽवश्यं व्याकरणपणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रवर्तन्त इति दृष्टम् , निश्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाप्यविल
म्बितं भवत्यादिसाधुशब्दप्रयोगव्यवहारदर्शनात् । अनाप्तोक्तत्वशङ्का च ग्राह्यसंशयपर्यवसायिनी न प्रतिबन्धिका । प्रतिबन्धिका fo चेत् । तदातोक्तत्वज्ञानमा मृग्यम् , न तु तद्विशेषोक्तत्वज्ञानमपीति न किश्चिदेतत् ॥ ४२ ॥
'आद्याभिमतं हिरण्यगर्भवेदाध्ययनं गुरुमुखार्धातवेदाध्ययनपूर्वकम् , वेदाध्ययनत्वात् , इदानींतनवेदाध्ययनवत' इत्येतदप्यसाधनमित्यभिधातुमाहस्वकृताध्ययनस्यापि तद्भावो न विरुध्यते । गौरवापादनार्थ च तथा स्यादनिवेदनम् ॥४३॥
स्वकृताध्ययनस्यापि- स्वरचितपाठस्यापि, तद्भाव:- आद्याध्ययनभावः, न विरुध्यते, कालिदासादिकृतकुमारसंभवादौ तथा दर्शनात् । तथा चायं व्यभिचारी हेतुरिति भावः । कृतापलापे कारणमाह- गौरवापादनार्थ च-प्रस्तुतग्रन्थस्याग्गिनिर्मितत्वसंभावनादिनाऽत्यादरार्थ च, तथा स्यादनिवेदनं- यदुत 'मत्कृतोऽयम्' इति ॥४३॥
___ 'वैदिकमन्त्रशब्दा अपौरुषेयाः, समर्थत्वात् , व्यतिरेके शब्दान्तरं दृष्टान्तः' इत्यप्यसाधनमित्यभिधातुमाहमन्त्रादीनांच सामर्थ्य शावराणामपि स्फुटम्। प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत्।।
मन्त्रादीनां च सामर्थ्य विषापहरणादौ, शावराणामपि पौरुषेयाणामपि, स्फुट- सर्वसाक्षिकम् , सर्वलोकेऽपि
Jain Education
For Private & Personel Use Only
www.jainelibrary.org