________________
शामाता
सटीकः। स्तबकः। ॥१०॥
अभ्यास एवमादीनामपि
"अभ्यासः कर्मणां सत्यमुत्पादयति कौशलम् । धात्रापि तावदभ्यस्तं यावत्सृष्टा मृगेक्षणा॥१॥"
अन्ये तु पश्चार्धमन्यथा पठन्ति- "मिथ्या तत्तादृशी येन न धात्रा निर्मिता परा" इत्यादीनामपि, कर्ताऽविगानतःएकवाक्यतया न मर्यते; स्मर्यते च विगानेन- अनेकवाक्यतया, हन्त ! इहापि- वेदेऽपि, अष्टकादिक:- अष्टका वामकब्रह्मादिरिति । अथ "अभ्यासः" एवमादौ कमात्रे न विगानमस्ति, वेदे तु कर्तृमात्रेऽपि तदस्ति; तथाहि- वेदे सौगताः कर्तृमात्रं स्मरन्ति न मीमांसकाः, इति तत्र कर्तृस्मरणमसत्यमिति चेत् । नन्वेवमस्मर्यमाणकर्तृकत्वहेतुरेवासिद्धः। अथ च्छिन्नमूलवेदे कर्तृस्मरणम् , अनुभवो हि स्मरणस्य मूलम् , न चासौ तत्र तद्विषयत्वेन विद्यत इति न दोष इति चेत् । न, स्वप्रत्यक्षेण कर्बनुभवस्यागमान्तरेऽप्यभावात् , सर्वप्रत्यक्षाभावस्य चार्वाग्दृशा निश्चेतुमशक्यत्वात् , “हिरण्यगर्भः समवर्तताग्रे" इत्याद्यागमेन, रचनाविशेषकार्यानुमानेन च तत्र कनुभवस्यानपायाच्च; अन्यथा कारणाभावे कार्यानुत्पत्तेश्छिन्नमूलकनुस्मरणस्यासंभवदुक्तिकत्वादिति न किञ्चिदेतत् ।
- अथ स्मरणयोग्यत्वेऽपि सत्यस्मर्यमाणकर्तृकत्वं हेतुः; अस्ति चात्रापि कर्ता स्मरणयोग्यः, यद्यसौ स्यात् , तदाऽग्निहोत्रादिप्रवृत्तिसमये स्मर्येत, स्वयमदृष्टफलेषु कर्मसु पित्राशुपदेशमूलायां प्रवृत्तौ 'पित्रादिभिरेतदुपदिष्टम्' इति पित्रादिस्मरणावश्यंभावदर्शनात् न चाभियुक्तानामपि वेदार्थानुष्ठातृणां त्रैवर्णिकानां कर्तुः स्मरणमस्तीति चेत् । न, आगमान्तरे व्यभिचारात् । न हि तत्रापि तत्कर्ता न स्मरणयोग्यः, न वा मर्यत इति । न चायं नियमः- 'अनुष्ठातारोऽभिप्रेतार्थानुष्ठान
॥३८४॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org