________________
सराय
बुद्धिः' इति संभावना ॥ ४० ॥ ___नन्वपौरुषेयत्वसिद्धर्विशेषदर्शनादेवोक्ताशङ्का निवर्तते, इत्यतस्तत्साधनमपि विना सर्वझं न, इत्याहअपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां व्यभिचारादिदोषतः॥४१॥
___ अपौरुषेयतापि, अस्य- वेदस्य, नान्यत:- न सर्वज्ञादन्यस्मात् प्रमाणात , हि-निश्चितम् , अवगम्यते, अतीतस्य | वक्तुरनुपलब्धिमात्रादभावासिद्धेः । ननु चात्र हेतवः सन्तीत्येतदाशङ्कयाह- कर्तुरस्मरणादीनां-वक्ष्यमाणानां हेतूनाम् , व्यभि
चारादिदोषता- अनैकान्तिका-ऽसिद्धत्वादिदोषदुष्टत्वात् ॥४१॥ | 'तथाहि-वेदोऽपौरुषेयः, 'कर्तुरस्मरणात्' इति व्यधिकरणो हेतुः। अस्पर्यमाणकर्तृकत्वं च भारतादौ व्यभिचारि, | परकीयकर्तृस्मरणं च वेदेऽपि तुल्यम् । न तुल्यम्, वेदे विगानेन कर्तृस्मरणादिति चेत् । किमिदं विगानम् - कवि| शेषविप्रतिपत्तिा, स्मर्यमाणकर्तृविशेषे प्रकृतकार्यान्यसजातीयकार्यकर्तृत्वसंभावना वा । नाधः, कर्तृविशेषविपतिपच्या तद्विशेषस्मरणस्यासत्यत्वेऽपि कर्तृमात्रस्मरणस्यासत्यत्वायोगात् । अन्यथा कादम्बर्यादावपि कर्तृविशेषविप्रतिपच्याऽस्पर्यमाणक
कत्वेनानैकान्तिकत्वप्रसङ्गात् । अत एव न द्वितीयोऽपि, कर्तृविशेषे प्रकृतजातीयकार्यान्तरकर्तृत्वसंभावनायामपि प्रकृते कर्तृमात्रस्मरणाबाधात् । अन्यथा च वक्ष्यमाणस्थले व्यभिचारात्' इत्याशयवानाहनाभ्यास एवमादीनामपि कर्ताऽविगानतः। स्मयते च विगानेन हन्तेहाप्यष्टकादिकः॥४२॥
Jain Education Betona
For Private & Personel Use Only
www.jainelibrary.org