________________
माखवाता
समुच्चयः । ।। ३८३।३
Jain Education Inte
बहुत्वस्य, आदिना तदन्येषामल्पत्वस्य वा अनिश्चितेः सर्वादर्शनेनानिश्वयात् ॥ ३८ ॥ कथश्चिद् निश्चयेऽप्याह
बहूनामपि संमोहभावाद् मिथ्याप्रवर्तनात्। मानसंख्याविरोधाच्च कथमित्थमिदं ननु ? ॥ ३९॥ बहूनामपि तथाऽभ्युपगन्तॄणाम्, संमोहभावात् - मूलाज्ञानदोषात् मिथ्याप्रवर्तनात्- विगीतमत्रभ्युपपत्तेः, पारशीकादीनामित्र मातृविवाहादौ । तथा च 'शतमप्यन्धानां न पश्यति' इति न्यायाद् बहूनामप्यभ्युपगमोत्राप्रमाणमिति भावः । अभ्युपगम्यापि दोषमाह- मानसंख्याविरोधाच्च लोकस्य मानत्वे सप्तममानापच्या 'पडेव प्रमाणानि' इति विभागव्याघाताच; 'ननु' इत्याक्षेपे, इदं- 'पीपादत्रेदृशी बुद्धि:' इत्युक्तम्, इत्थं कथम् - युक्तं कृतः १ ॥ ३९ ॥
“नौतीन्द्रियार्थद्रष्टारमन्तरेण' इत्युक्तं विवेचयति—
अतीन्द्रियार्थद्रष्टा तु पुमान्कश्चिद्यदीष्यते । संभवद्विषयापि स्यादेवंभूतार्थकल्पना ॥४०॥ अतीन्द्रियार्थद्रष्टा तु पुमान्- सर्वदर्शी तु पुरुषः, यदि कश्चिदिष्यते - स्वीक्रियते, ऋषभोऽन्यो वा । ततः किम् ? इत्याह- संभवद्विषयापि स्यात् - संभवदुक्तिकापि स्यात्, तदुपदेशमूलज्ञानसामर्थ्यात् एवंभूतार्थकल्पना- 'पापादत्रेहशी
१ प्रस्तुतस्तव का० ३८ । २ प्रकृतस्ततके का० ३७ ।
For Private & Personal Use Only
deepadio
सटीकः । स्तवकः ।
।। १० ।।
॥३८३॥
ww.jainelibrary.org