________________
अभ्युपगम्य परमतम् , दोषान्तरमाहदृश्यमानेऽपि चाशङ्काऽदृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रष्टारमन्तरेण निवर्तते॥३७॥
दृश्यमानेऽपि च-श्रूयमाणेऽपि च स्वतन्त्रवक्तृव्यापारवैकल्ये वेदशब्दे, आशङ्काऽअदृश्यकर्तृसमुद्भवा- दृश्यकर्वश्रवणे 'पिशाचककोऽयं भविष्यति' इति पिशाचकर्तृत्वोत्कटकोटिविषया, न निवर्तते 'प्रेक्षापूर्वकारिणः' इति शेषः । किं सर्वथा न निवर्तत एव ? नेत्याह- अतीन्द्रियार्थद्रष्ट्रारमन्तरेण । यदि त्वसौ स्वीक्रियेत तदा तद्वचस्तो निवर्तेतापि, प्रत्यक्षादिभ्यः सर्वज्ञवचनस्य बलवत्वादिति भावः ।। ३७ ।।
परः शहतेपापादत्रेदशी बुद्धिर्न पुण्यादिति न प्रमा।नलोको हि विगानत्वात्तबहुत्वाद्यनिश्चितेः॥३८॥ o पापात्- दुरदृष्टात् , अत्र-वेदे, ईदृशी बुद्धिः- उक्ता शङ्कारूपा; ततः क एतां निवर्तयेद् विनाऽऽस्तिक्यपरिपाकनिमित्त
पदृष्टम् ? इति भावः। उत्तरयति-न पुण्यात-न पुण्यादीदृशी बुद्धिरिति, न प्रमा- नात्र प्रमाणं किञ्चिदिति भावः । लोक एवात्र प्रमाणमित्याशङ्कयाह- न लोको हि-न लोक एवात्र प्रमाणम् । कुतः ? इत्याह- विगानत्वात्- विरुद्धं गानमभ्युपगमो यस्येति बहुव्रीहिस्तस्य भावस्तत्त्वं ततः । तथा च केषांचिद् विप्रतिपत्तेर्नात्र सकललोकैकवाक्यतेति भावः । यद्यप्ये| वम्, तथापि बहवोऽस्मत्पक्ष एव, इति बहूनामभ्युपगमः प्रमाणमित्याशङ्कयाह- तरहुत्वाद्यनिश्चिते:- तेपामुक्ताभ्युपगमवतां
Jain Education in
anal
For Private & Personel Use Only
www.jainelibrary.org