________________
सटीकः। स्तयकः । ॥१०॥
P
शास्त्रवान वृत्तितया कार्यतानवच्छेदकत्वात् । मृतलौकिकप्रत्यक्षत्वापेक्षया च द्रव्यनिष्टलौकिकविषयतया चाक्षुषत्वस्यैव लाघवेन समुच्चयः। कार्यतावच्छेदकत्वौचित्यात् । अस्तु वा शक्तिविशेषस्य शक्तिमाद्वशेषवत्त्वेन विषयस्यैव वा चाक्षुषे स्पार्शने च हेतुत्वमिति ॥३८२॥ न वाय्वादेरस्पार्शनत्वम् । न चैवं वायुगतसंख्या-परिमाणादेः प्रत्यक्षतापत्तिः, सजातीयसंवलनाभावे भूयोऽवयवावच्छेदेन
स्वक्सनिकर्षे चेष्टत्वात् , पार्श्वद्वयलग्नफूत्कारद्वयसंख्यापरिमाणग्रहस्यानुभविकत्वादिति । एतेन स्वतन्त्रोक्तनीत्या 'विजातीयकत्वाभावादस्पार्शनत्वं वायोः' इत्यपि निरस्तम्, स्पार्शनजनकतावच्छेदकवैजात्यव्यापकत्रसरेण्वेकत्वसाधारणवैजात्यस्य नित्यैकत्वसाधारणत्वे महत्त्वो-द्भूतरूपयोः पृथकारणताद्वयकल्पनस्यावश्यकत्वात् , निखिलतद्वयात्तत्वे च कार्यमात्रवृत्तितया जातितया तदवच्छिन्नं प्रति कस्यचित् कारणस्यावश्यकतया द्रव्यचाक्षुषं प्रत्येकत्वकारणतामादाय कारणताद्वयकल्पनस्यावश्यकत्वात् , वैजात्यकल्पनस्य पुनरधिकत्वात् , उक्तविजातीयैकत्वस्यैव संयुक्तसमवायप्रत्यासत्तिमध्ये निवेशेन वायोरस्पानित्वे तवृत्तिस्पर्शाद्यस्पार्शनप्रसङ्गात् , अन्यथा प्रभादौ चाक्षुषजनकतावच्छेदिकया सांकर्यादिति दिग् ।
एवं च 'उद्भूतरूपाभावाद् मूतत्वे शब्दस्य प्रत्यक्षत्वं न स्यात्' इति व्याहतं वचनम् , योग्यतायाः शक्तिविशेषस्य वा तत्राप्यव्याहतत्वात् । प्रत्यासत्तिश्च शब्दे श्रोत्रस्य संयोग एव, मनो-नयनवर्जानामिन्द्रियाणां व्यञ्जनावग्रहप्रतिपादनात् , “पुढे सुणेइ सई" इत्यागमात् , द्रव्यान्तरस्याग्रहणं च श्रोत्रेणायोग्यत्वादिति किमनुपपन्नम् ? । तदेवं द्रव्यापेक्षया सर्व वचोऽपौरुषेयम् , पर्यायापेक्षया तु पौरुपेयमेवेति व्यवस्थितम् ॥ ३६॥
१ स्पृष्टं शृणोति शब्दम् ।
॥३८२॥
For Private Personal Use Only
Jan Education International
www.jainelibrary.org