SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ PREPARA అంతంత गवामनेकत्वात् । अपिच, घटादाविव निरुपचरितमेव शब्द एकत्वादिकं प्रतीयते, परम्परासंबन्धेन बैलक्षण्यन वा तदप्रत्ययात् । एतेन 'यथाऽविरोधं संख्योपचारः' इति पदार्थेषु षट्त्ववदत्रैकत्वादिकम् , बुद्धिविशेषविषयरूपमेव वा' इत्यादि निरस्तम् । एवं क्रियावचात् , गुणवत्त्वाच्च 'शब्दो द्रव्यम्' इति बाधितं तस्याद्रव्यत्वसाधकानुमानम् । अपिच, 'एकद्रव्यत्वात्' इति हेतुरप्यसिद्धः, 'एकद्रव्यः शब्दः' इत्याद्यनुमाने वायुनैव व्यभिचारात् , तस्याप्रत्यक्षत्वे घटादेरपि तथात्वप्रसङ्गात, त्वचा स्पर्शस्येव चक्षुषापि रूपस्यैव प्रतीतेः सुवचत्वात् 'पश्यामि, सुशामि' इति धिया घटादेदर्शन-स्पर्शनाभ्यां प्रत्यक्षत्वोपगमे च वायावपि 'खरः, मृदुः, उष्णः, शीतो वायुमें लगति' इति प्रतीतस्तथात्वं किं नोपेयते? । न चेयं प्रतीतिर्न स्पार्शनी, अपि तु मानसीति वाच्यम् ; त्वग्व्यापार एव तदुदयात् , 'स्पृशामि' इत्याकारानुपपत्तेश्च । अथ 'स्पृशामि' इति धीभ्रान्ता, मूर्तपत्यक्षत्वस्योद्भूतरूपकार्यतावच्छेदकत्वेन कारणाभावस्य बाधकस्य सत्त्वादिति चेत् । न, चाक्षुषे स्पार्शने वा विलक्षणक्षयोपशमरूपयोग्यताया एव हेतुत्वात् प्रभादिवृत्त्यनुद्भूतस्पर्शादेः स्पार्शनादिप्रतिबन्धकत्वाकल्पनात. योग्यताऽभावादेव तत्र स्पार्शनाद्यनुदयात् । अत एव योग्यताविशेषवतः पुरुषविशेषस्य शब्द बाह्येन्द्रियान्तरेणापि प्रतीतो प्रकृतहेतावसिद्धतामप्युद्भावयन्ति संप्रदायवृद्धाः; अन्यथा चक्षुषवास्मदादिभिरुपलभ्यमानैश्चन्द्रा-कादिभिर्व्यभिचारात, 'सर्वदा सर्वत्र सर्वेबाबैकेन्द्रियग्राह्यः शब्दः, वाद्यन्द्रियग्राह्यत्वे सति विशेषगुणत्वात् , रूपादिवत्' इत्यत्र च शब्दस्य गुणत्वनिपेधेन हेतोरसिद्धत्वात् । अपिच, मूर्तपत्यक्षत्वावच्छिन्न उद्भूतरूपस्य हेतुत्वं मीमांसकानुसारिभिरेव निरस्तम् , मूर्तपत्यक्षत्वस्य कार्या-कार्य Jain Educatio n al For Private 3 Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy