________________
Polos
शास्त्र वाता
समुच्चयः। ॥३८१॥
सटीकः। स्तवकः] ॥१०॥
SPIRasailedias
ल्पनागौरवाच । 'मन्द-तीव्रताभिसंबन्धादल्प-महत्त्वप्रत्ययसंभवे मन्दवाहिनि गङ्गानीरे 'अल्पमेतत्' इति प्रत्ययोत्पत्तिः स्यात् , तीववाहिनि गिरिसरिनीरे 'महत्' इति च प्रतीतिप्रसङ्गः' इत्यपि वदन्ति । न चात्र क्रियानिष्ठयोरेव मन्दत्व-तीव्रत्वयोः प्रत्ययः, शब्दे तु स्वगतयोरेवेति विशेष इति वाच्यम् शब्देऽपि 'मन्दमायाति, तीव्रमायाति शब्द:' इति क्रियानिष्ठयोरपि तयोः प्रतीयमानत्वात् , क्रियाधर्मस्य क्रियावत्युपचारश्च नीरेऽपि दृश्यत एव 'इदं नीरं मन्दम् , इदं तीव्रम्' इति न किश्चिदेतत् ।।
वायुना प्रतिनिवर्तनात् संयोगादपि तथा, गन्धादिवत् प्रतिकूलवायुनाऽऽश्रयनिवर्तनस्य दुर्वचत्वात् , तदाश्रयस्य भवद्भिः यापकस्याभ्युपगमात् , शब्दात् शब्दोत्पत्तेश्च निरस्तत्वात् । तबिरासे कथमेक एव शब्दो बहुभिः प्रतीयते ? इति चेत् । यथैक एव चम्पकादिगन्धो बहुभिः प्रतीयते तथेति विभावय, तदवयवानां दिक्षु प्रसरणवत् शब्दावयवानामपि तदुपगमात् । चम्पकादिभ्यो निर्गता द्रव्यान्तरीभूता एव चम्पकावयवा यथावातं प्रसरन्ति न तु चम्पकोऽपि, अदृष्टवशाद् बीजायुच्छूनतायामिव नियतावयवान्तरागमनाच्च न चम्पके च्छिद्राद्यापत्तिः, न चायं शब्दे न्याय इति चेत् । न, चम्पकीयगन्धप्रत्यभिज्ञानादवयवान्तरागमकल्पने गौरवाचावस्थितस्यैव चम्पकस्य तथापरिणामकल्पनात् शब्दस्याप्यवस्थितस्यैव दिग्-विदिग्व्याप्तिसंभवात् , आगममूलश्चास्माकमयमर्थ इति दिक् ।
एकत्वादिसंख्यायोगादपि तथा, 'एकः शब्दः, द्वौ शब्दौ, बहवः शब्दाः' इति प्रतीतेः । न चाधारसंख्योपचारात तथाव्यपदेश इति युक्तम्, आधारस्यैकत्वाद् बहुप्वप्येकत्वव्यपदेशापत्तेः । विषयसंख्योपचारे च गगना-ऽऽकाश-व्योम- शब्दषु बहुत्वव्यपदेशानापत्तिः, गगनलक्षणस्य विषयस्यैकत्वात् । न स्याच ‘एको गोशब्दः' इति स्वमेऽपि प्रतीतिः,
॥३८१।।
Jain Education
www.jainelibrary.org
For Private Personal Use Only
ona