SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ __ अपि च, गुणवत्वादपि द्रव्यं शब्दः। न च गुणवत्त्वमसिद्धम् , कसपाच्यादिध्वानाभिसंबन्धेन कर्णशष्कुल्याख्यस्य शरीरावयवस्याभिघातदर्शनेन स्पर्शवत्तया तस्य तत्सिद्धेः, स्पर्श-वेगसापेक्षक्रियाया अभिघातहेतुत्वात् । स्पर्शवता शब्देन कर्णविवरं प्रविशता वायुनेव तयारलग्नतूलांशुकादेः प्रेरणं स्यात् । न स्याद् धृमेनानेकान्तात् । धूमो हि स्पर्शवान् , तदभिसंबन्धेन पांशुसंबन्धेनेव चक्षुपोऽस्वास्थ्योपलब्धः। न च तेन चक्षुःप्रदेश प्रविशता तत्पक्ष्ममात्रस्यापि प्रेरणं समुपलभ्यत इति । न च स्पर्शवत्वे शब्दस्य वायोरिव स्पार्शनप्रसङ्गः, धूम-प्रभादिवदनुभूतस्पर्शत्वात् । नापि धूमादिवच्चाक्षुषप्रसङ्गः, जलसंयुक्तानलवदनुद्भूतरूपत्वात् । अथ जलसहचरितेनानलेनोष्णस्पर्शवता शरीरप्रदेशदाहवत् तथाविधेन शब्दसहचरितेन वायुनेव श्रवणाख्यशरीरावयवाभिघाताद् न शब्दस्य स्पर्शवत्वमिति चेत् । न, शब्दतीव्रतानुविधायित्वेनाभिघातविशेषस्य तद्धेतुकत्वात् । न चानुद्भूतस्पर्शवताऽभिघात इति सांप्रतम् , तादृशस्यापि पिशाचादेः पादप्रहारेण तत्संभवात् । वेगवन्निविडावयव क्रिययैवाभिघातः, तत्र स्पर्शो न तन्त्रमिति चेत् । अस्त्वेवम् , तथापि गुणवत्वमव्याहतमेव । अल्पत्व-महत्त्वाभिसंबन्धादपि गुणवान् शब्दः, 'अल्पः शब्दो, महान् शब्दः' इति सार्वजनीनानुभवात् । न च वक्तृगतं व्यञ्जकगतं वाऽल्प-महत्त्वमारोप्यत इति । वाच्यम् बाधकाभावात् । न चेयत्तानवधारणं बाधकम् , वाय्वादौ तदनवधारणेऽप्यल्प-महत्त्वावधारणात् । न च तारत्वमन्दत्वजातिभ्यामेव शब्दगताभ्यामल्प-महत्वव्यपदेशोपपत्तेने तत्र परिमाणकल्पनमिति वाच्यम् ; तारत्वादेः शब्दगतजातिवासिद्धः, कत्वादिना सांकर्यात् , 'कत्वादिव्याप्यं तारत्वादिकं भिन्नमेव' इत्यस्य च दुर्वचत्वात् , 'तारत्वादिव्याप्यं कत्वादिकमेव भिन्नमस्तु' इत्यपि वक्तुं शक्यत्वात् । कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वनियमेन नानातारत्वाद्यवच्छिन्ने नानाहेतुक Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy